________________
श्रीसिद्धहेमचन्द्रशब्दानुशासनम्
१०७
एभ्यो वेत्यधीते वेत्यर्थे-'उकः' स्यात् । पदकः, क्रमकः, शिक्षकः, मीमांसकः, सामकः ॥१२६॥
स-सर्वपूर्वात् लुप् ।६।२।१२७॥ सपूर्वात् सर्वपूर्वाञ्च वेत्यधीते वेत्यर्थे 'प्रत्ययस्य लुप्' स्यात् । सवार्तिकः, सर्ववेदः ॥१२७॥
सङ्ख्याकात् सूत्रे ।६।२।१२८॥ सङ्ख्यायाः परो यः कस्तदन्तात् सूत्रार्थाद् वेत्त्यधीते वेत्यर्थे 'प्रत्ययस्य लुप्' स्यात् । अष्टकाः पाणिनीयाः ॥१२८॥
प्रोक्तात् ।६।२।१२९॥ प्रोक्तार्यप्रत्ययान्ताद् वेत्त्यधीते वेत्यर्थे 'प्रत्ययस्य लुप्' स्यात् । गोतमेन प्रोक्तं गौतमम्, तद्वेत्त्यधीते वा गौतमः ।।१२९॥
वेदेनब्राह्मणमत्रैव ।६।२।१३०॥ प्रोक्तप्रत्ययान्तं वेदवाचि, इन्नन्तं ब्राह्मणवाचि चाऽत्रैव- वेत्यधीते वेति विषये एव प्रयुज्यते । कठेन प्रोक्तं वेदं विदन्त्यधीयते वा कठाः, ताण्ड्येन प्रोक्तं ब्राह्मणं विदन्त्यधीयते वा ताण्डिनः ॥१३०॥
तेन छन्ने रये ।६।२।१३१॥ तेनेति- तृतीयान्तात्, छन्ने रथे 'यथाविहितं प्रत्ययः' स्यात् । वास्त्रो रथः ।।१३१॥
पाण्डुकम्बलादिन् ।६।२।१३२॥ अस्मात् टान्तात्, छन्ने रथे 'इन्' स्यात् । पाण्डुकम्बली रथः ॥१३२॥
दृष्टे साम्नि नाम्नि ।६।२।१३३॥ तेनेति- टान्तात्, दृष्टं सामेत्यर्थे 'यथाविहितं प्रत्ययः' स्यात्, संज्ञायाम् । क्रौञ्चं साम, कालेयम् ।।१३३॥