________________
श्रीसिद्धहेमचन्द्रशब्दानुशासनम्
गोत्रादङ्कवत् ।६।२।१३४।। गोत्रवाचिनष्टान्ताद् दृष्टं सामेत्यर्थे - 'ऽङ्क इव प्रत्ययः स्यात् । औपगवकं
साम ॥१३४॥
१०८
वामदेवाद् यः ।६।२।१३५ ॥
अस्माट्टान्ताद् दृष्टे साम्नि 'यः' स्यात् । वामदेव्यं साम || १३५ || डिद्वाऽण् ॥६।२।१३६॥
दृष्टं सामेत्यर्थे ऽण् डिद् वा स्यात् । औशनम्, औशनसम् ॥१३६॥ वा जाते द्विः | ६ | २|१३७॥
जातेऽर्थे योऽण् द्विर्विहितः स 'डिद्वा' स्यात् । शातभिषः, शातभिषजः । द्विरिति किम् ? हैमवतः ॥ १३७||
तत्रोद्धृते पात्रेभ्यः । ६।२।१३८॥
तत्रेति - सप्तम्यन्तात् पात्रार्थादुद्धृतेऽर्थे 'यथाविहितं प्रत्ययः स्यात् । शाराव ओदनः ॥१३८॥
स्थण्डिलाच्छेते व्रती | ६।२।१३९॥
स्थण्डिलात् सप्तम्यन्तात् शेते व्रतीत्यर्थे 'यथाविहितं प्रत्ययः' स्यात् । स्थाण्डिलो भिक्षुः || १३९||
संस्कृते भक्ष्ये | ६ |२| १४० ॥
सप्तम्यन्तात् संस्कृते भक्ष्ये 'यथाविहितं प्रत्ययः' स्यात् । भ्राष्ट्रा अपूपाः || १४० || शूलोखाद्यः | ६ |२| १४१ ॥
आभ्यां सप्तम्यन्ताभ्यां संस्कृते भक्ष्ये 'यः' स्यात् । शूल्यम्, उख्यं मांसम् ॥ १४१ ॥ क्षीरादेयण् | ६ |२| १४२ ||
क्षीरात् सप्तम्यन्तात् संस्कृते भक्ष्ये 'एयण्' स्यात् । क्षैरेयी यवागूः || १४२ ||