________________
श्रीसिद्धहेमचन्द्रशब्दानुशासनम्
व्यादिप्रत्ययान्तानां द्वन्द्वे बहये 'यः स व्यादिः, तस्य लुप्' स्यात, तथा यया पूर्वम् । वृक-लोहध्वज-कुण्डी वृशाः । तथेति किम् ? गार्गीवत्स-वाजाः । तत्राऽस्त्रियामित्युक्ते गार्गीत्यत्र न स्यात् ॥१३२॥
वाऽन्येन ।६।१।१३३॥ द्रयादेरन्येन सह द्रयादीनां दुन्द्रे बहर्ये 'यः स यादिस्तस्य तथा वा लप' स्यात्, यथा पूर्वम् । अन-वा-दाक्षयः, आज-वाङ्ग-दाक्षयः ॥१३३॥
ब्वेकेषु षष्ठ्यास्तसुरुषे यत्रादेर्वा ।६।१।१३४॥ षष्ठीतत्पुरुषे यत् पदं षड्या विषये द्वयोरेकस्मिंश्च स्यात्, तस्य यः स यादिः तस्य तथा वा लुप्' स्यात् । गर्गकुलम्, गार्यकुलम: विदकुलम्, वैदकुलम् । दयेकेष्विति किम् ? गर्गाणां कुलं गर्गकुलम् ।।१३४॥
न प्रागजितीये स्वरे ।६।११३५॥ गोत्रे उत्पन्नस्य बहुष्वित्यादिना 'या लुबुक्ता सा प्राजितीयेऽर्थे यः स्वरादिस्तद्धितः, तद्विषये न' स्यात् । गार्गीयाः आत्रेयीयाः । प्रागजितीय इति किम् ? अत्रीयः । स्वर इति किम् ? गर्गमयम् ॥१३५॥
गर्ग-भार्गविका ६११३६॥ द्वन्द्वात् प्राग्जितीये विवाहे योऽकल् तस्मि-'नणो लुबभावः' स्यात् । गर्गभार्गविका ॥१३६॥
यूनि लुप् ।६।१।१३७॥ यून्युत्पन्नस्य प्रत्ययस्य प्रागजितीयेऽर्थे स्वरादी प्रत्यये विषयभूते 'लुप् स्यात्, लुपि सत्यां यः प्राप्नोति स स्यात् । पाण्टाहतिः, तस्यापत्यं युवा पाण्टाहृतः, तस्य च्छात्रा इति प्रागजितीयेऽर्थे स्वरादौ चिकीर्षिते णस्य लुप, ततो "वृद्धेऽ" (६-३-२८) इत्यञ्- पाण्टाहताः ॥१३७।।
वायनणायनिजोः ।६।१।१३८॥