SearchBrowseAboutContactDonate
Page Preview
Page 94
Loading...
Download File
Download File
Page Text
________________ श्रीसिद्धहेमचन्द्रशन्दानुशासनम् लुप्' स्यात् । यस्काः, लह्याः । गोत्र इति किम् ? यास्काः छात्राः ॥१२५॥ यज्ञोऽश्यापर्णान्त-गोपवनादेः ।६।१११२६॥ यजन्तस्य बहुगोत्रार्थस्य 'यः प्रत्ययस्तस्याऽस्त्रियां लुप्' स्यात्, न तु श्यापर्णान्तेभ्यो गोपवनादिभ्यः । गर्गाः, विदाः । अश्यापर्णेत्यादिति किम् ? गौपवनाः ॥१२६॥ कौण्डिन्या-ऽऽगस्त्ययोः कुण्डिना-ऽगस्ती च ।६।१।१२७॥ अनयोर्बहुगोत्रार्थयो-'योऽणाऽस्त्रियां लुप्' स्यात्, कुण्डिन्यगस्त्ययोः ‘कुण्डिनाऽगस्ती' चाऽऽदेशौ । कुण्डिनाः, अगस्तयः ॥१२७|| भृग्वङ्गिरस्-कुत्स-वशिष्ठ-गोतमाऽत्रेः ।६।१।१२८॥ एभ्यो यः प्रत्ययस्तदन्तस्य बहुगोत्रस्य 'यः प्रत्ययस्तस्याऽस्त्रियां लुप्' स्यात् । भृगवः, अङ्गिरसः, कुत्साः, वशिष्ठाः, गोतमाः, अत्रयः ॥१२८॥ प्रागभरते बहुस्वरादिजः ।६।१।१२९॥ बहुस्वराद् य इज, तदन्तस्य बहुप्राग्भरतगोत्रार्थस्य 'यः प्रत्ययः, तस्याऽस्त्रियां लुप्' स्यात् । क्षीरकलम्भाः, उद्दालकाः । प्राग्भरत इति किम् ? बालाकयः । बहुस्वरादिति किम् ? चैकयः ॥१२९॥ वोपकादेः ।।१।१३०॥ एभ्यो यः प्रत्ययस्तदन्तस्य बहुगोत्रार्थस्य 'यः प्रत्ययः, तस्याऽस्त्रियां लुप् स्याद् वा' । उपकाः, औपकायनाः; लमकाः, लामकायनाः ॥१३०॥ तिककितवाऽऽदौ द्वन्द्वे ।६।१।१३१॥ एषु द्वन्द्वेषु बहुगोत्रार्थेषु यः प्रत्ययस्तस्याऽस्त्रियां लुप्' स्यात् । तिककितवाः, उब्जककुभाः ॥१३१॥ यादेस्तथा ।६।१।१३२॥
SR No.009646
Book TitleSiddha Hemchandrashabdanu Shasanam Part 2
Original Sutra AuthorHemchandracharya
AuthorChandraguptasuri
PublisherAnekant Prakashan Jain Religious
Publication Year2000
Total Pages375
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Grammar
File Size49 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy