SearchBrowseAboutContactDonate
Page Preview
Page 92
Loading...
Download File
Download File
Page Text
________________ श्रीसिदहेमचन्द्रशब्दानुशासनम् ८७ स्वरात् । चार्मिकायणिः, चार्मिणः; वार्मिकायणिः, वार्मिणः; गारेटाकायनिः, गारेटिः; कार्कट्यकायनिः, कार्कट्यायनः; काककायनिः, काकिः; लाङ्ककायनिः, लाङ्केयः; वाकिनकायनिः, वाकिनिः; गार्गीपुत्रकायणिः, गार्गीपुत्रिः ।।११२।। अदोरायनिः प्रायः ।६।१११३॥ अदोरपत्ये 'आयनिर्वा' स्यात् प्रायः । ग्लुचुकायनिः, ग्लौचुकिः । प्रायः किम् ? दाक्षिः ।।११३॥ राष्ट्र-क्षत्रियात् सरूपाद् राजाऽपत्ये दिरञ् ।६।११११४॥ राष्ट्र-क्षत्रियाभ्यां सरूपाभ्यां यथासङ्ग्यं राजा-ऽपत्ययो-'र' स्यात्, स च 'द्रिः' । विदेहा राजानः, अपत्यानि वा । सरूपादिति किम् ? सौराष्ट्रको राजा ।।११४॥ गान्धारि-साल्वेयाभ्याम् ।६।१।११५॥ आभ्यां राष्ट्र-क्षत्रियार्याभ्यां सरूपाभ्यां यथासङ्ख्यं राजा-ऽपत्ये च 'दिरज्' स्यात् । गान्धारयः, साल्वेया राजानोऽपत्यानि वा ।।११५।। पुरु-मगध-कलिङ्ग-शूरमस-द्विस्वरादण ।६।११११६॥ एभ्यो द्विस्वरेभ्यश्च राष्ट्र-सत्रियार्थेभ्यः सरूपेभ्यो यथासङ्घयं राजा-ऽपत्ये च 'दिरण' स्यात् । पुरोरपत्यं पौरवः, मागधो राजाऽपत्यं वा, एवं कालिङ्गः, शौरमसः, आङ्गः ।।११६॥ साल्वांश-प्रत्यग्रय-कलकूटाऽश्मकादिन् ।६।१।११७॥ साल्वा जनपदः, तदंशेभ्यः प्रत्यग्रथादेश्च सरूपराष्ट्र-क्षत्रियार्थेभ्यो यथासंख्यं राजा-ऽपत्ये च 'द्रिरिज्' स्यात् । औदुम्बरिः राजाऽपत्यं वा, एवं-प्रात्यग्रथिः, कालकूटिः, आश्मकिः ॥११७।। दु-नादि-कुर्वित्-कोशला- जादाज्यः ।६।१११८॥ दुभ्यो नादेः कुरोरिदन्तेभ्यः कोशला-ऽऽजादाभ्यां च सरूपराष्ट्र-क्षत्रियेभ्यो .
SR No.009646
Book TitleSiddha Hemchandrashabdanu Shasanam Part 2
Original Sutra AuthorHemchandracharya
AuthorChandraguptasuri
PublisherAnekant Prakashan Jain Religious
Publication Year2000
Total Pages375
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Grammar
File Size49 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy