SearchBrowseAboutContactDonate
Page Preview
Page 90
Loading...
Download File
Download File
Page Text
________________ श्रीसिद्धहेमचन्द्रशब्दानुशासनम् भस्मादपत्ये ‘एयण् वा' स्यात् । दौष्कुलेयः, दुश्कुलीनः ॥९८॥ महाकुलाद् वाऽजीनञौ ।६।१।९९॥ अस्मादपत्ये- 'ऽञ् ईनञ् च वा' स्याताम् । माहाकुलः, माहाकुलीनः, महाकुलीनः ॥ ९९ ॥ कुवदिर्व्यः ।६।१।१००॥ एभ्योऽपत्ये 'ञ्यः' स्यात् । कौरव्याः शाङ्कव्याः ||१००|| सम्राजः क्षत्रिये | ६ |१|१०१॥ " ८५ अस्मात् क्षत्रियेऽपत्ये 'ञ्यः' स्यात् । साम्राज्यः क्षत्रियः ||१०१ || सेनान्त - कारु - लक्ष्मणादिञ् च | ६|१|१०२ ॥ सेनान्तात् कार्वर्थाल्लक्ष्मणाच्चाऽपत्ये 'इञ् ञ्यश्च' स्यात् । हारिषेणिः, हारिषेण्यः; तान्तुवायिः, तान्तुवाय्यः; लाक्ष्मणिः, लाक्ष्मण्यः ॥१०२॥ सुयाम्नः सौवीरेष्वायनिञ् |६|१|१०३ ॥ सुयाम्नः सौवीरेषु योऽर्थस्तद्वृत्तेरपत्ये 'आयनिञ्' स्यात् । सौयामायनिः ॥१०३॥ पाण्टाहृति - मिमताण्णश्च | ६ |१|१०४ ॥ आभ्यां सीवीरेषु योऽर्थस्तद्वृत्तिभ्यामपत्ये 'ण आयनिञ् च' स्यात् । पाण्टाहृतः, पाण्टाहृतायनिः, सौवीरगोत्रः । एवं मैमतः, मैमतायनिर्वा ॥ १०४ ॥ भागवित्ति-तार्णविन्दवा ऽऽकशापेयान्निन्दायामिक‍ वा | ६|१|१०५ || एभ्यः सौवीरेषु यो वृद्धः, तद्वृत्तिभ्यो यूनि 'इकण् वा स्यात्, निन्दायां गम्यायाम् । भागवित्तिकः, भागवित्तायनो वा जाल्मः; तार्णविन्दविकः, तार्णविन्दविर्वा आकशापेयिकः, आकशापेयिर्वा ॥ १०५ ॥
SR No.009646
Book TitleSiddha Hemchandrashabdanu Shasanam Part 2
Original Sutra AuthorHemchandracharya
AuthorChandraguptasuri
PublisherAnekant Prakashan Jain Religious
Publication Year2000
Total Pages375
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Grammar
File Size49 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy