________________
श्रीसिद्धहेमचन्द्रशब्दानुशासनम्
क्षुद्राभ्य एरण वा | ६|१|८०||
अङ्गहीना अनियतपुंस्का वा स्त्रियः क्षुद्राः, क्षुद्रार्थेभ्यः स्त्रीभ्य 'एरण् वा ' स्यात् । काणेरः, काणेयः; दासेरः, दासेयः ||८० ॥
गोधाया दुष्टे णारच | ६ | १|८१॥
गोधाया दुष्टेऽपत्ये 'णार एरण् च' स्यात् । गौधारः, गौधेरो गोधायामहिजातः ॥८१॥
जण्ट -पण्टात् । ६।१।८२॥
आभ्यामपत्ये 'णारः' स्यात् । जाण्टारः, पाण्टारः ॥ ८२ ॥
चतुष्पाद्भ्य एयञ् |६|१|८३॥
चतुष्पाद्वाचिभ्योऽपत्ये 'एयञ्' स्यात् । कामण्डलेयः ॥ ८३ ॥
गृष्ट्यादेः | ६ |१|८४ ॥
एभ्योऽपत्ये 'एयञ्' स्यात् । गार्ष्टयः, हार्ष्टयः || ८४ ॥
वाडवेयो वृषे | ६|१|८५ ॥
वडवाया वृषेऽर्थे 'एयञ् एयण् वा' निपात्यते । वाडवेयः ||८५|| रेवत्यादेरिकण् | ६ | १९८६ ॥
एभ्योऽपत्ये 'इक' स्यात् । रैवतिकः, आश्वपालिकः ॥८६॥ वृद्धस्त्रियाः क्षेपे णश्च | ६ | १|८७ ॥
८३
वृद्ध्प्रत्ययान्तात् स्त्रियामपत्ये 'णेकणी' स्यातां क्षेपे गम्ये । गार्ग्या अपत्यं युवा गार्गः, गार्गिको वा जाल्मः ॥८७॥
भ्रातुर्व्यः | ६ |१|८८ ॥
भ्रातुरपत्ये 'व्यः' स्यात् । भ्रातृव्यः ॥८८॥ ईयः स्वसुश्च | ६ | १|८९ ॥