SearchBrowseAboutContactDonate
Page Preview
Page 86
Loading...
Download File
Download File
Page Text
________________ श्रीसिद्धहेमचन्द्रशब्दानुशासनम् भारद्वाजः ॥६॥ विकर्ण-छगलाद् वात्स्या-ऽऽत्रेये ।६।१।६४॥ आभ्यां यथासायं वात्स्ये आत्रेये चापत्ये-'ऽण' स्यात् । वैकर्णो वात्स्यः, छागल आत्रेयः ॥६॥ णच विश्रवसो विश्लुक च वा ।६११६५॥ विश्रवसोऽपत्ये-'ऽण' स्यात्, तद्योगे च णः' णयोगे च विशो लुक च वा। वैश्रवणः, रावणः ॥६५॥ सया-सं-भद्रान्मातुर्मातुर्च ।६।१।६६॥ सध्याऽर्थात् सम्भद्राभ्यां च परो यो माता, तदन्तादपत्ये-'ऽण्' स्यात्, मातुश्च 'मातुर्' । द्वैमातुरः, सामातुरः, भाद्रमातुरः ॥६६॥ । अदोनदी-मानुषीनाम्नः ।६।१६७॥ अदुसंज्ञानदीनाम्नो मानुषीनाम्नश्चापत्ये-'ऽण् स्यात् । यामुनः प्रणेता, देवदत्तः । अदोरिति किम् ? चान्द्रभागेयः ॥६७।। पीला-साल्वा-मण्डूकाद् वा ।६।१।६८॥ एभ्योऽपत्ये-'ऽण् वा' स्यात् । पैलः, पैलेयः; साल्वः, साल्वेयः; माण्डूकः, माण्डूकिः ॥६॥ दितेश्चैयण वा ।६।११६९॥ दितेर्मण्डूकाचाऽपत्ये 'एयण वा' स्यात् । दैतेयः, दैत्यः; माण्डूकेयः, माण्डूकिः ॥६९॥ याप्-त्यूङः ।६।१७०॥ ड्चन्ताद् आबन्तात् त्यन्ताद् ऊउन्ताघापत्ये “एयण' स्यात् । सौपर्णेयः, वैनतेयः, यौवतेयः, कामण्डलेयः ॥७०॥
SR No.009646
Book TitleSiddha Hemchandrashabdanu Shasanam Part 2
Original Sutra AuthorHemchandracharya
AuthorChandraguptasuri
PublisherAnekant Prakashan Jain Religious
Publication Year2000
Total Pages375
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Grammar
File Size49 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy