SearchBrowseAboutContactDonate
Page Preview
Page 85
Loading...
Download File
Download File
Page Text
________________ ८० श्रीसिद्धहेमचन्द्रशब्दानुशासनम् आभ्यां वृद्धे 'आयनण्' स्यात्, ‘लुक्' चान्तादेशः । क्रौष्टायनः, शालकायनः ॥५६॥ दर्भ-कृष्णाऽग्निशर्म-रण-शरद्वच्छुनकादाग्रायण-ब्राह्मण __वार्षगण्य-वाशिष्ठ-भार्गव-वात्स्ये ।६।१।५७॥ एभ्यो यथासङ्ख्यमेषु वृद्धेष्वायनण् स्यात् । दार्भायण आग्रायणश्चेत्, काष्र्णायनो ब्राह्मणः, आग्निशर्मायणो वार्षगण्यः, राणायनो वाशिष्ठः, शारद्वतायनो भार्गवः, शौनकायनो वात्स्यः ॥५७|| जीवन्त-पर्वताद् वा ।६११५८॥ आभ्यां वृद्धे 'आयनण् वा' स्यात् । जैवन्तायनः, जैवन्तिः; पार्वतायन:, पार्वतिः ॥५८॥ द्रोणाद् वा ।६।११५९॥ द्रोणादपत्यमात्रे 'आयनण वा' स्यात् । द्रौणायनः, द्रौणिः ॥५९॥ शिवादेरण ।६।१।६०॥ शिवादेरपत्ये-'ऽण्' स्यात् । शैवः, प्रौष्ठः ॥६०॥ ऋषि-वृष्ण्यन्धक-कुरुभ्यः ।६।१।६१॥ ऋष्यादिवाचिभ्योऽपत्ये-'ऽण्' स्यात् । वाशिष्ठः, वासुदेवः, श्वाफल्कः, नाकुलः ॥६१॥ कन्या-त्रिवेण्याः कनीन-त्रिवणं च ६११६२॥ आभ्यामपत्ये-'ऽण्' स्याद्, यथासङ्घयं 'कनीन-त्रिवणौ चाऽऽदेशी' । कानीनः, वैवणः ॥६२॥ शुङ्गाभ्यां भारद्वाजे ।६।१।६३॥ शुङ्ग-शुङ्गाभ्यां पुं-स्त्रीशब्दाभ्यां भारद्वाजेऽपत्ये-'ऽण्' स्यात् । शौङ्गो
SR No.009646
Book TitleSiddha Hemchandrashabdanu Shasanam Part 2
Original Sutra AuthorHemchandracharya
AuthorChandraguptasuri
PublisherAnekant Prakashan Jain Religious
Publication Year2000
Total Pages375
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Grammar
File Size49 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy