SearchBrowseAboutContactDonate
Page Preview
Page 82
Loading...
Download File
Download File
Page Text
________________ ७७ श्रीसिद्धहेमचन्द्रशब्दानुशासनम् यूनि अपत्ये यः प्रत्ययः स आद्याद् वृद्धाद् यो वृद्धप्रत्ययस्तदन्तात् स्यात् । गार्ग्यस्यापत्यं युवा गार्यायणः ॥३०॥ अत इञ् ।६।१।३१॥ अदन्तात् षष्ट्यन्तादपत्ये 'इञ्' स्यात् । दाक्षिः ॥३१॥ बाहादिभ्यो गोत्रे ।६।१।३२॥ स्वापत्यसन्तानस्य स्वव्यपदेशहेतुर्य आद्यपुरुषस्तदपत्यं- गोत्रम्, एभ्यः षष्ट्यन्तेभ्यो गोत्रेऽर्थे 'इञ्' स्यात् । बाहविः, औपवाहविः ॥३२॥ वर्मणोऽचक्रात् ।६।१॥३३॥ चक्रवर्जात् परो यो वर्मा तदन्तादपत्येऽर्थे 'इ' स्यात् । ऐन्द्रवर्मिः ।। अचक्रादिति किम् ? चाक्रवर्मणः ॥३३।। __ अजादिभ्यो धेनोः ।६।१।३४॥ एभ्यः परो यो धेनुस्तदन्तादपत्यार्थे 'इञ्' स्यात् । आजधेनविः, बाष्कधेनविः ॥३४॥ ब्राह्मणादा ।६।११३५॥ ब्राह्मणाद् धेनुस्तदन्तादपत्येऽर्थे 'इञ् वा' स्यात् । ब्राह्मणधेनविः, ब्राह्मणधेनवः ॥३५॥ भूयस्-सम्भूयो-ऽम्भो-ऽमितौजसः स्लुक् च ।६।१।३६॥ एभ्योऽपत्ये 'इञ्' स्यात्, ‘सो लुक् च' । भौयिः, साम्भूयिः, आम्भिः, आमितौजिः ॥३६॥ शालक्यौदि-षाडि-वाइलि ।६।११३७॥ एतेऽपत्ये 'इअन्ता' निपात्यन्ते । शालङ्किः, औदिः, पाडिः, वाड्वलिः ।। व्यास-वरुट-सुधातृ-निषाद-बिम्ब-चण्डालादन्त्यस्य
SR No.009646
Book TitleSiddha Hemchandrashabdanu Shasanam Part 2
Original Sutra AuthorHemchandracharya
AuthorChandraguptasuri
PublisherAnekant Prakashan Jain Religious
Publication Year2000
Total Pages375
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Grammar
File Size49 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy