________________
७६
श्रीसिदहेमचन्द्रशब्दानुशासनम्
लोग्नोऽपत्येषु ।६।१।२३॥ लोम्नः प्राजितीयेऽर्थे बह्वपत्याऽर्थे 'अः' स्यात् । उडुलोमाः । बहुवनं किम् ? औडुलोमिः ॥२३॥
द्विगोरनपत्ये य-स्वरा-ऽऽदे बदिः ।६।१।२४॥ अपत्यादन्यस्मिन् प्राग्जितीयेऽर्थे भूतस्य द्विगोः परस्य यादेः स्वरादेच प्रत्ययस्य "लुप्' स्यात्, 'न तु द्विः' । द्विरथः, पञ्चकपाल: । अनपत्य इति किम् ? द्वैमातुरः । अद्विरिति किम् ? पाञ्चकपालम् ॥२४॥
प्राग वतः स्त्री-पुंसात् नस्नञ् ।६।१।२५॥ वतोऽर्वागर्थेष्वनिदम्यणपवादे चाभ्यां यथासङ्ख्यं 'नञ् स्नञ् च' स्यात् । त्रैणः, पौंस्नः । प्राग् वत इति किम् ? स्त्रीवत् ॥२५||
त्वे वा ।६।१।२६॥ स्त्री-पुंसाभ्यां त्वविषये यथासङ्ख्यं 'नञ्-स्नो' वा स्याताम् । स्त्रैणम् स्त्रीत्वम्: पौंस्नम्, पुंस्त्वम् ।।२६॥
गोः स्वरे यः ।।१।२७॥ गोः स्वरादितद्धितप्राप्तौ 'यः' स्यात् । गव्यम् । स्वर इति किम् ? गोमयम् ॥२७॥
उसोऽपत्ये ।६।१।२८॥ षड्यन्तादपत्येऽर्थे यथाविहितमणादयः स्युः । औपगवः, दैत्यः ॥२८॥
आयात् ।६।११२९॥ अपत्ये यस्तद्धितः स परमप्रकृतेरेव स्यात् । उपगोरपत्यमौपगवः, तस्याप्यौपगविः, औपगवेरप्यौपगवः ॥२९॥
वृद्धाद् यूनि ।६।१।३०॥