SearchBrowseAboutContactDonate
Page Preview
Page 80
Loading...
Download File
Download File
Page Text
________________ श्रीसिद्धहेमचन्द्रशब्दानुशासनम् ७५ एभ्यः प्रागजितीयेऽर्थे इदंवर्जेऽपत्याधर्थे योऽणोऽपवादस्तद्विषये च 'ज्यः' स्यात् । दैत्यः, आदित्यः, आदित्य्यः, याम्यः, बार्हस्पत्यः । अनिदमीति किम् ? आदित्यस्येदं आदितीयं मण्डलम् ॥१५॥ बहिषष्टीकण च ।६।१।१६॥ बहिषः प्राग्जितीयेऽर्थे 'टीकण् ज्यश्च' स्यात् । बाहीकः, बाह्यः ॥१६॥ कल्यग्नेरेयण ।६।१।१७॥ आभ्यां प्राग्जितीयेऽर्थेऽनिदम्यणपवादे च ‘एयण' स्यात् । कालेयम्, आग्नेयम् ॥१७॥ पृथिव्या जा-ऽ ।६।१।१८॥ पृथिव्याः प्राग्जितीयेऽर्थेऽनिदम्यणपवादे च-'आ-ऽऔ' स्याताम् । पार्थिवा, पार्थिवी ।।१८।। उत्सादेर ।६।१।१९॥ अस्मात् प्राग्जितीयेऽर्थेऽनिदम्यणपवादे चा-'ऽञ्' स्यात् । औत्सः, औदपानम् ॥१९॥ बष्कयादसमासे ।६।१।२०॥ असमासवृत्तेर्बष्कयात् प्राग्जितीयेऽर्थेऽनिदम्यणपवादे चा'-ऽञ्' स्यात् । बाष्कयः । असमास इति किम् ? सौबष्कयिः ॥२०॥ देवाद् यञ् च ।।१।२१॥ देवात् प्राजितीयेऽर्थेऽनिदम्यणपवादे च 'यत्रऽऔ' स्याताम् । दैव्यम्, दैवम् ॥२१॥ अः स्थाम्नः ६१॥२२॥ स्थाम्नः प्रागजितीयेऽर्थे 'अ' स्यात् । अश्वत्थामः ॥२२॥
SR No.009646
Book TitleSiddha Hemchandrashabdanu Shasanam Part 2
Original Sutra AuthorHemchandracharya
AuthorChandraguptasuri
PublisherAnekant Prakashan Jain Religious
Publication Year2000
Total Pages375
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Grammar
File Size49 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy