SearchBrowseAboutContactDonate
Page Preview
Page 78
Loading...
Download File
Download File
Page Text
________________ श्रीसिद्धहेमचन्द्रशदानुशासनम् ७३ ॥ अहम्।। [अथ षष्ठोऽध्यायः, तत्र प्रथमः पादः-] तद्धितोऽणादिः ।६।१।१॥ वक्ष्यमाणोऽणादि-'स्तद्धितः' स्यात् । औपगवः ॥१॥ पौत्रादि वृद्धम् ।६।१।२॥ परमप्रकृतेर्यत् पौत्रादि अपत्यं तद् ‘वृद्ध' स्यात् । गार्यः, पुत्रस्तु गार्गिः ॥२॥ वंश्य-ज्यायोप्रात्रोर्जीवति प्रपौत्रायत्री युवा ।६।१।३॥ वंश्यः- पित्राऽऽदिः स्वस्य हेतुः, वंश्ये ज्येष्ठभ्रातरि च जीवति प्रपौत्राधपत्यं स्त्रीवर्जं 'युवा' स्यात् । गाायणः ॥३॥ सपिण्डे वयः-स्थानाधिके जीवद् वा ।६।१।४॥ समानः पिण्डः सप्तमः पुरुषो यस्य तस्मिन् वयः-स्थानाभ्यामधिके जीवति प्रपौत्राधस्त्री जीवद् 'युवा वा' स्यात् । गाायणः, गार्यो वा ॥४॥ युव-वृद्धं कुत्साऽर्चे वा ।६।१।५॥ युवा वृद्धं चाऽपत्यं यथासायं कुत्सा-ऽर्चयोर्विषये 'युवा वा' स्यात् । गार्यः, गाायणो वा जाल्मः; वृद्धमर्चितम्, गार्यावणः, गार्यो वा ॥५।। संज्ञा दुर्वा ।६।१।६॥ हठात् संज्ञा 'दुर्वा' स्यात् । देवदत्तीयाः, दैवदत्ताः ॥६॥ त्यदादिः ॥१७॥ असौ 'दुः' स्यात् । त्यदीयम्, तदीयम् ॥७॥ वृद्धिर्यस्य स्वरेष्वादिः ।६।१८॥ यस्य स्वराणामादिः स्वरो वृद्धिः, स 'दुः' स्यात् । आम्रगुप्तायनिः ॥८॥
SR No.009646
Book TitleSiddha Hemchandrashabdanu Shasanam Part 2
Original Sutra AuthorHemchandracharya
AuthorChandraguptasuri
PublisherAnekant Prakashan Jain Religious
Publication Year2000
Total Pages375
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Grammar
File Size49 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy