________________
श्रीसिद्धहेमचन्द्रशब्दानुशासनम्
७१
क्रियासमाप्ती गम्यायां तिर्यचाऽव्ययेन योगे तुल्यकर्तृकार्थात् कृगो धातोः सम्बन्धे 'क्त्वा-णमौ' स्याताम् । तिर्यक् कृत्वा, तिर्यस्कृत्य, तिर्यकारमास्ते । अपवर्ग इति किम् ? तिर्यक् कृत्वा काष्ठं गतः ॥८५||
स्वागत्तव्यर्थे नाना-विना-धाऽर्थेन भुवश्च ।५।४।८६॥ तसन्तेन स्वाङ्गेन, च्य॑वृत्तिभिर्नाना-विनाभ्यां धाऽर्थप्रत्ययान्तैश्च योगे तुल्यकर्तृकार्याद् भुवः कृगश्च धातोः सम्बन्धे 'क्त्वा-णमी' स्याताम् । मुखतो भूत्वा, मूखतोभूय, मुखतोभावमास्ते; नाना भूत्वा, नानाभूय, नानाभावं गतः, विना भूत्वा, विनाभूय, विनाभावं गतः; द्विधा भूत्वा, द्विधाभूय, द्विधाभावमास्ते; एवं- पार्वतः कृत्वा, पार्वतःकृत्य, पार्वतःकारं शेते इत्यादि । च्यर्थ इति किम् ? नाना कृत्वा भक्ष्याणि मुझे ॥८६॥
तूष्णीमा ।५।४।८७॥ तूष्णीयोगे तुल्यकर्तृकार्याद् भुवो धातोः सम्बन्धे ‘क्त्वा-णमौ' स्याताम् । तूष्णीं भूत्वा, तूष्णीभूय, तूष्णींभावमास्ते ॥८७॥
आनुलोम्येऽन्वचा ।५।४।८८॥ अन्वचाऽव्ययेन योगे तुल्यकर्तृकार्याद् भुव आनुलोम्ये गम्ये धातोः सम्बन्धे 'क्त्वा-णमा' स्याताम् । अन्वग् भूत्वा, अन्वग्भूय, अन्वग्भावमास्ते । आनुलोम्य इति किम् ? अन्वम् भूत्वा विजयते, पश्चाद् भूत्वेत्यर्थः ॥८॥
इछाऽर्थे कर्मणः सप्तमी ।५।४।८९॥ इच्छाऽर्थे धातावुपपदे तुल्यकर्तृकार्यात् कर्मभूताद् धातोः ‘सप्तमी' स्यात् । भुञ्जीयेति इच्छति । इच्छार्य इति किम् ? भोजको याति । कर्मण इति किम् ? इच्छन् करोति ॥८९॥ शक-पुष-ज्ञा-रम-लभ-सहा-ऽर्ह-ग्ला-घटाऽस्ति-समर्थाऽर्थे
च तुम् ।५।१९०॥