________________
७०
श्रीसिद्धहेमचन्द्रशब्दानुशासनम्
विश-पत-पद-स्कन्दो वीप्सा-ऽऽभीक्ष्ण्ये ।५।४।८१॥ द्वितीयान्तेन योगे तुल्यकर्तृकार्याद् विशादेवीप्सा-ऽऽभीक्ष्ण्ययोर्गम्ययोर्धातोः सम्बन्धे 'णम् वा' स्यात् । गेहं गेहमनुप्रवेशं गेहानुप्रवेशमास्ते, गेहमनुप्रवेशमनुप्रवेशं गेहानुप्रवेशमास्ते; गेहं गेहमनुप्रपातं गेहानुप्रपातमास्ते, गेहमनुप्रपातमनुप्रपातं गेहानुप्रपातमास्ते, गेहं गेहमनुप्रपादं गेहानुप्रपादमास्ते, गेहमनुप्रपादमनुप्रपादं गेहानुप्रपादमास्ते, गेहं गेहमवस्कन्दं गेहावस्कन्दमास्ते, गेहमवस्कन्दमवस्कन्दं गेहावस्कन्दमास्ते; पक्षे- गेहं गेहमनुप्रविश्याऽऽस्ते, गेहमनुप्रविश्यानुप्रविश्याऽऽस्ते इत्यादि ॥१॥
कालेन तृष्यस्वः क्रियाऽन्तरे ।५।४१८२॥ क्रियाव्यवधायकार्याभ्यां तृष्यसूम्यां द्वितीयान्तेन कालार्थेन योगे धातोः सम्बन्ध 'णम् वा' स्यात् । यह तर्ष यहतर्ष गावः पिबन्ति । यहमत्यासं यहात्यासं गावः पिबन्ति । क्रियान्तर इति किम् ? अहरत्यस्येषन गतः ।।८२||
नाम्ना ग्रहा-ऽऽदिशः ।५।४।८३॥ नामशब्देन द्वितीयान्तेन योगे तुल्यकर्तृकार्थाद् ग्रहेरादिशेश्च धातोः सम्बन्धे 'णम् वा' स्यात् । नामानि ग्राहं नामग्राहमालयति, नामान्यादेशं नामा-ऽऽदेशं दत्ते, पक्षे-नाम गृहीत्वा दत्ते ॥३॥
कृगोऽव्ययेनाऽनिष्टोक्तौ क्त्वा-णमौ ।५।१८४॥ अव्ययेन योगे तुल्यकर्तृकार्थात् कृगोऽनियोक्ती गम्यायां धातोः सम्बन्धे 'क्त्वाणमौ' स्याताम् । ब्राह्मण ! पुत्रस्ते जातः, किं तर्हि वृषर ! नीचैः कृत्वा, नीचैःकृत्य, नीचैःकारं कथयसि ? उच्चै म प्रियमाख्येयम् । अनिष्ोक्ताविति किम् ? उच्चैः कृत्वाऽऽचष्टे ब्राह्मण ! पुत्रस्ते जात इति । अव्ययेनेति किम् ? ब्राह्मण ! पुत्रस्ते जातः, किं तर्हि वृषल ! मन्दं कृत्वा कथयसि ? ॥४॥
तिर्यचाऽपवर्गे ५४१८५॥