________________
श्रीसिद्धहेमचन्द्रशब्दानुशासनम्
पाण्युपकर्षं गृह्णाति ।।७५॥
प्रमाण-समासत्त्योः ।५।४।७६॥ आयाममानं-प्रमाणम्, समासत्तिः संरम्भपूर्वकः सन्निकर्षः, तयोर्गम्ययोस्तृतीयान्तेन सप्तम्यन्तेन च योगे तुल्यकर्तृकार्थाद् धातोः संबन्धे ‘णम् वा' स्यात् । व्यालेनोत्कर्ष व्यगुलोत्कर्षम्, व्यगुले उत्कर्ष व्यङ्गुलोत्कर्ष गण्डिकाश्छिनत्ति; केशेग्रहिं केशग्राहम्, केशेषु ग्राहं केशग्राहं युध्यन्ते; पक्षे-युगुलेनोत्कृष्य गण्डिकाश्छिनत्ति ॥७६॥
पञ्चम्या त्वरायाम् ।५।४७७॥ त्वरायां गम्यायां पञ्चम्यन्तेन योगे तुल्यकर्तृकार्थाद् धातोः सम्बन्धे ‘णम् वा' स्यात् । शय्याया उत्थायं शय्योत्यायं धावति, पक्षे- शय्याया उत्याय धावति । त्वरायामिति किम् ? आसनादुत्थाय याति ॥७७॥
द्वितीयया ।५।४७८॥ द्वितीयान्तेन योगे त्वरायां गम्यायां तुल्यकर्तृकार्थाद् धातोः सम्बन्धे ‘णम् वा' स्यात् । लोष्टान् ग्राहं लोष्टग्राहम्, लोटान् गृहीत्वा युध्यन्ते ॥७८॥
स्वाङ्गेनाऽध्रुवेण ।५।४७९॥ यस्मिन) च्छिन्ने भित्र वा प्राणी न म्रियते तदध्रुवं, तेन स्वाङ्गेन द्वितीयान्तेन योगे तुल्यकर्तृकार्याद् धातोः सम्बन्धे ‘णम् वा' स्यात् । ध्रुवौ विक्षेप भूविक्षेपम्, ध्रुवौ विक्षिप्य वा जल्पति । स्वाड्रेनेति किम् ? कफमुन्मूल्य जल्पति । अध्रुवेणेति किम् ? शिर उत्क्षिप्य वक्ति ॥७९॥
परिकेश्येन 1५।४।८०॥ परिकेश्येन स्वाङ्गेन द्वितीयान्तेन योगे तुल्यकर्तृकार्थाद् धातोः सम्बन्धे ‘णम् वा' स्यात् । उरांसि प्रतिपेषं उरःप्रतिपेषम्, उरांसि प्रतिपेष्य वा युध्यन्ते ॥८॥