SearchBrowseAboutContactDonate
Page Preview
Page 73
Loading...
Download File
Download File
Page Text
________________ ६८ श्रीसिद्धहेमचन्द्रशब्दानुशासनम् नश्यति ॥६९॥ ऊर्ध्वात् पू:-शुषः ।५।४७०॥ कर्तुरूवा॑त् परात् पूरः शुषश्च तस्यैव सम्बन्धे ‘णम् वा' स्यात् । ऊर्ध्वपूरं पूर्यते, ऊर्ध्वशोषं शुष्यति ||७०|| व्याप्याचेवात् ।५।४७१॥ व्याप्यात् कर्तुश्चोपमानात् पराद् धातोस्तस्यैव सम्बन्धे ‘णम् वा' स्यात् । सुवर्णनिधायं निहितः, काकनाशं नष्टः ॥७१॥ उपात् किरो लवने ।५।४७२॥ उपपूर्वात् किरतेलेवनार्थस्य धातोः सम्बन्धे ‘णम् वा' स्यात् । उपस्कारं मद्रका लुनन्ति । लवन इति किम् ? उपकीर्य याति ॥७२।। दशेस्तृतीयया ।५।४७३॥ तृतीयान्तेन योगे तुल्यकर्तृकार्थादुपपूर्वाद् दंशेर्धातोः सम्बन्धे ‘णम् वा' स्यात् । मूलकेनोपदंशं मूलकोपदंशम्, मूलकेनोपदश्य भुङ्क्ते ॥७३॥ हिंसाऽथदिकाऽऽप्यात् ।५।४७४॥ हिंसार्थाद् धातोर्धात्वन्तरेणैकाऽऽप्यात् तुल्यकर्तृकार्थात् तृतीयान्तेन योगे ‘णम् वा' स्यात् । दण्डेनोपघातं दण्डोपघातम्, दण्डेनोपहत्य च गाः सादयति । एकाप्यादिति किम् ? दण्डेनोपहत्य चौरं गोपालको गाः खेटयति ॥७४।। उपपीड-रुध-कर्षस्तत्सप्तम्या ।५।४७५॥ तया तृतीया युक्ता सप्तमी तत्सप्तमी, तदन्तेन योगे उपपूर्वेभ्य एभ्यस्तुल्यकर्तृकार्थेभ्यो धातोः सम्बन्धे ‘णम् वा' स्यात् । पाण्यामुपपीडं पार्योपपीड शेते, पार्श्वयोरुपपीडं पायोपपीडं शेते; व्रजेनोपरोधं व्रजोपरोधम, व्रजे उपरोधं व्रजोपरोधं गाः स्थापयति; पाणिनोपकर्ष पाण्युपकर्षम्, पाणावुपकर्ष
SR No.009646
Book TitleSiddha Hemchandrashabdanu Shasanam Part 2
Original Sutra AuthorHemchandracharya
AuthorChandraguptasuri
PublisherAnekant Prakashan Jain Religious
Publication Year2000
Total Pages375
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Grammar
File Size49 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy