________________
श्रीसिदहेमचन्द्रशब्दानुशासनम्
हनश्च समूलात 1५।४।६३॥ समलाद् व्याप्यात् पराद् हन्तेः कषेश्च तस्यैव सम्बन्धे ‘णम् वा' स्यात् । समूलघातं हन्ति, समूलकार्ष कषति ॥६३॥
करणेभ्यः ।५।४१६४॥ करणार्यात् पराद् हन्तेस्तस्यैव सम्बन्धे ‘णम् वा' स्यात् । पाणिघातं कुङ्यमाहन्ति ॥६४॥
स्व-स्नेहनार्थात् पुष-पिषः ।५।४॥६५॥ स्यशब्दार्थात् स्नेहनार्थाच्च करणार्थात् पराद् यथासङ्ख्यं पुषः पिषश्च तस्यैव सम्बन्धे 'णम् वा' स्यात् । स्वपोषं पुष्णाति, एवम्- आत्मपोषम्: उदपेषं पिनष्टि, एवं- क्षीरपेषम् ॥६५॥
हस्ताद् ग्रह-वर्ति-वृतः ।५।४॥६६॥ हस्तार्थात् करणवाचिनः परेभ्य एभ्यस्तस्यैव सम्बन्धे ‘णम् वा' स्यात् । हस्तग्राहं गृह्णाति, एवं- करग्राहम, हस्तवतं वर्त्तयति, पाणिवतं वर्तते ॥
बन्धेनाम्नि ५/४६७॥ बन्धिः प्रकृति मविशेषणं च, बन्धेर्बन्धनस्य यन्नाम- संज्ञा, तद्विषयात् करणार्यात् पराद् बन्धेस्तस्यैव सम्बन्धे 'णम् वा स्यात् । क्रौञ्चबन्धम्बद्धः ॥६७।।
___आधारात् ।५।४।६८॥ आधारार्थात् पराद् बन्धेस्तस्यैव सम्बन्धे 'णम् वा' स्यात् । चारकबन्धम्बद्धः ॥६॥
कर्तुर्जीव-पुरुषानश-वहः ।५।४।६९॥ आभ्यां कर्तृभ्यां पराद् यथासङ्ख्यं नशेवहश्च तस्यैव सम्बन्धे 'णम् वा' स्यात् । जीवनाशं नश्यति, पुरुषवाहं वहति । कर्तुरिति किम् ? जीवेन