________________
श्रीसिद्धहेमचन्द्रशन्दानुशासनम्
चर्मोदरात पूरेः ।५।४५६॥ आभ्यां व्याप्याभ्यां परात् तुल्यकर्तृकार्यात् पूरयतेर्धातोः सम्बन्धे ‘णम् वा' स्यात् । चर्मपूरमास्ते, उदरपूरं शेते ॥५६॥
वृष्टिमान ऊलुक् चास्य वा 1५।४।५७॥ व्याप्यात् परात् पूरयतेर्धातोः सम्बन्धे ‘णम् वा स्यात् । पूरयते-'रूतो लुक् च वा' समुदायेन चेद् वृष्टीयत्ता गम्यते । गोष्पदप्रम्, गोष्पदपूरं वृधे मेघः ॥५७॥
चेलार्थात् क्नोपेः ।५।४।५८॥ चेलार्थाद् व्याप्यात् परात् क्नोपयतेस्तुल्यकर्तृकार्याद् वृष्टिमाने गम्ये धातोः सम्बन्धे ‘णम् वा' स्यात् । चेलक्नोपं वृष्टो मेघः ॥५८॥
गात्र-पुरुषात् स्नः ।५।४।५९॥ आभ्यां व्याप्याभ्यां परात् तुल्यकर्तृकार्यात् स्नातेवृष्टिमाने गम्ये धातोः । सम्बन्चे ‘णम् वा' स्यात् । गात्रस्नायं वृष्टः, पुरुषस्नायं वृष्टः ॥५९॥
शुष्क-चूर्ण-रूक्षात् पिषस्तस्यैव ।५।४।६०॥ एभ्यो व्याप्येभ्यः परात् पिषे-र्णम् वा' स्यात्, तस्यैव धातोः सम्बधे । शुष्कपेषं पिनष्टि, एवं- चूर्णपेषम्, रूक्षपेषम् ॥६०॥
कृग-ग्रहोऽकृत-जीवात् ।५।४।६१॥ आभ्यां व्याप्याभ्यां पराद् यथासङ्ख्यं कृगो ग्रहेश्च तस्यैव सम्बन्धे 'णम् वा' स्यात् । अकृतकारं करोति, जीवग्राहं गृह्णाति ॥६॥
निमूलात् कषः ।५।४।६२॥ निमूलाद् व्याप्यात् परात् कषेस्तस्यैव सम्बन्चे ‘णम् वा' स्यात् । निमूलकाषं कषति, निमूलस्य काषं कषति ॥२॥