________________
श्रीसिद्धहेमचन्द्रशब्दानुशासनम्
६५
एभ्यः परात् तुल्यकर्तृकार्थात् कृगोऽनर्थकाद् धातोः सम्बन्धे 'ख्णम् वा' स्यात् । अन्यथाकारम्, एवङ्कारम्, कथङ्कारम्, इत्यङ्कारं भुङ्के, पक्षे अन्यथा कृत्वा । अनर्थकादिति किम् ? अन्यथा कृत्वा शिरो भुङ्क्ते ॥५०॥ यथा - तथादीर्य्योत्तरे | ५|४|५१॥
आभ्यां तुल्यकर्तृकार्थादनर्थकात् कृगो धातोः सम्बन्धे 'ख्णम् वा' स्यात्, ईर्ष्यचेदुत्तरयति । कथं त्वं भोक्ष्यसे ? इति पृष्टोऽसूयया तं प्रत्याहयथाकारमहं भोक्ष्ये तथाकारमहं भोक्ष्ये किं तवानेन ? । ईष्र्योत्तर इति किम् ? यथा कृत्वाऽहं भोक्ष्ये तथा द्रक्ष्यसि ॥ ५१ ॥ शापे व्याप्यात् । ५|४|५२ ॥
कर्मणः परात् तुल्यकर्तृकार्थात् कृगो धातोः सम्बन्धे 'ख्णम् वा' स्यात्, आक्रोशे गम्ये । चोरङ्कारमाक्रोशति । शाप इति किम् ? चोरं कृत्वा हेतुभिः कथयति ॥५२॥
-
स्वाद्वर्थाद् अदीर्घात् | ५|४|५३ ॥
स्वाद्वर्थाददीर्घान्ताद् व्याप्यात् परात् तुल्यकर्तृकार्थात् कृगो धातोः सम्वन्धे 'ख्णम् वा' स्यात् । स्वादुङ्कारं भुङ्क्ते, मिष्टङ्कारं भुङ्क्ते, पक्षे स्वादुं कृत्वा । अदीर्घादिति किम् ? स्वाद्वीं कृत्वा यवागूं भुङ्क्ते ॥ ५३॥
विद्-दृग्भ्यः कार्त्स्न्ये णम् | ५ | ४|५४ ||
कार्त्स्यवतो व्याप्यात् परेभ्यस्तुल्यकर्तृके प्राक्कालेऽर्थे वर्त्तमानेभ्यो विदिभ्यो दृशेश्च धातोः सम्बन्धे 'णम् वा' स्यात् । अतिथिवेदं भोजयति, कन्यादर्श वरयति । कार्त्स्य इति किम् ? अतिथिं विदित्वा भोजयति ॥ ५४ ॥ यावतो विन्द - जीवः | ५|४|५५॥
कार्त्स्यवतो व्याप्याद् यावतः पराभ्यां तुल्यकर्तृकाभ्यां विन्दति - जीविभ्यां धातोः सम्बन्धे 'णम् वा' स्यात् । यावद्वेदं भुङ्क्ते, यावज्जीवमधीते ॥ ५५ ॥