________________
श्रीसिद्धहेमचन्द्रशब्दानुशासनम्
निषेधेऽलं-खल्चोः क्त्वा ।५।४।४४॥ निषेधार्थयोरलं-खल्वोरुपपदयो?तोः 'क्त्वा वा' स्यात् । अलं कृत्वा, खलु कृत्वा, पक्षे- अलं रुदितेन ॥४४॥
पराऽवरे ।५।४।४५॥ परे अवरे च गम्ये ‘क्त्वा वा' स्यात् । अतिक्रम्य नदीं गिरिः, अप्राप्य नदी गिरिः, नद्यतिक्रमणे गिरिः, नद्यप्राप्त्या गिरिः ॥४५।।
निमील्याऽऽदि-मेङस्तुल्यकर्तृके ।५।४।४६॥ तुल्यो धात्वर्थान्तरेण कर्ता यस्य तवृत्तिभ्यो निमील्यादिभ्यो मेडश्च धातोः सम्बन्धे ‘क्त्वा वा' स्यात् । अक्षिणी निमील्य हसति, मुखं व्यादाय स्वपिति, अपमित्य याचते, पक्षे- अपमातुं याचते । तुल्यकर्तृक इति किम् ? चैत्रस्याक्षिनिमीलने मैत्रो हसति ॥४६।।
प्राकाले ।५।४।४७॥ परकालेन धात्वर्थेन तुल्यकर्तृके प्राक्कालेऽर्थे वर्तमानाद् धातोः सम्बन्धे ‘क्त्वा वा' स्यात् । आसित्वा मुझे, आस्यते भोक्तुम् । प्राकाल इति किम् ? भुज्यते, पीयते वा ॥४७॥
णम् चाऽऽभीक्ष्ण्ये ।५।४।४८॥ आभीक्ष्ण्ये परकालेन तुल्यकर्तृके प्राकालेऽर्थे वर्तमानाद् धातोः सम्बन्धे 'ख्णम् क्त्वा च' स्यात् । भोजं भोजं याति, भुक्त्वा भुक्त्वा याति ॥४८॥
पूर्वाऽग्रे-प्रथमे ।५।४॥४९॥ एषूपपदेषु परकालेन तुल्यकर्तृके प्राक्कालेऽर्थे वर्तमानाद् धातोः सम्बन्धे 'ख्णम् वा' स्यात् । पूर्व भोज याति, पूर्व मुक्त्वा याति, एवम्- अग्रे भोजम, अग्रे मुक्त्वा प्रथमं भोजम्, प्रथम भुक्त्वा; पूर्व मुज्यते ततो याति ॥४९॥ ___ अन्यथैवं-कथमित्थमः कृगोऽनर्थकात् ।५।४।५०॥