________________
श्रीसिद्धहेमचन्द्रशब्दानुशासनम्
भृशाऽऽभीक्ष्ण्ये हि स्वौ यथाविधि त-ध्वमौ च तद्युपदि |५|४|४२ ॥
भृशा - SS भीक्ष्ण्ये सर्वकालेऽर्थे वर्त्तमानाद् धातोः सर्वविभक्तिवचनविषये 'हिस्वा' स्याताम्, यथाविधि धातोः संबन्धे यत एव धातोर्यस्मिन्नेव कारके हिस्वा तस्यैव धातोस्तत्कारकविशिष्टस्यैव सम्बन्धे अनुप्रयोगे सति तथा पञ्चम्या एव 'त-ध्वमी', तयोः सम्बन्धिनि बहुत्वविशिष्टे युष्मद्यर्थे 'हि- स्वी' च स्यातां यथाविधि धातोः सम्बन्धे । लुनीहि लुनीहीत्येवायं लुनातीत्यादि, अधीष्वाधीष्वेत्येवायमधीते इत्यादि लुनीत लुनीतेत्येवं यूयं लुनीथ, लुनीहि लुनीहीत्येवं यूयं लुनीय, अधीध्वमधीध्वमित्येवं यूयमधीध्वे, अधीष्वाधीष्वेत्येवं यूयमधीध्वे । यथाविधीति किम् ? लुनीहि लुनीहीत्येवायं लुनाति, छिनत्ति, लूयते वेति धातोः संबन्धे मा भूत् ॥ ४२ ॥
प्रचये नवा सामान्यार्थस्य |५|४|४३||
६३
"
धात्वर्थानां समुच्चये गम्ये सामान्यार्थस्य धातोः सम्बन्धे सति धातोः परौ 'हि- स्वौ, त-ध्वमौ च तद्युष्मदि वा' स्याताम् । व्रीहीन् वप, लुनीहि, पुनीहि, इत्येवं यतते यत्यते वा; पक्षे- व्रीहीन् वपति, लुनाति, पुनाति इत्येवं यतते, यत्यते वा; सूत्रमधीष्व, नियुक्तिमधीष्व भाष्यमधीष्वेत्येवमधीते, पठ्यते वा; पक्षे - सूत्रमधीते, निर्युक्तिमधीते, भाष्यमधीते, इत्येवमधीते, पठ्यते वा; व्रीहीन् वपत, लुनीत पुनीतेत्येवं यतध्वे, व्रीहीन् वप, लुनीहि, पुनीहीत्येवं चेष्टध्ये; पक्षे- व्रीहीन् वपथ, लुनीथ, पुनीथेत्येवं यतध्वे; सूत्रमधीध्वं नियुक्तिमधीध्वं भाष्यमधीध्वमित्येवमधीध्वे, सूत्रमधीष्व नियुक्तिमधीष्व भाष्यमधीष्वेत्येवमधीध्ये; पक्षे- सूत्रमधीध्ये निर्युक्तिमधीध्वे भाष्यमधीध्वे इत्येवमधीध्वे । सामान्यार्थस्येति किम् ? व्रीहीन् वप लुनीहि पुनीहि इत्येवं वपति लुनाति पुनातीति मा भूत् ||४३||