________________
श्रीसिद्धहेमचन्द्रशब्दानुशासनम्
यच्छब्दप्रयोगे कालादिषूपपदेषु 'सप्तमी' स्यात् । कालो यदधीयीत भवान्, वेला यद् मुभीत समयो यत् शयीत ॥३४॥
शक्ताहे कृत्याश्च ।५।४॥३५॥ शक्तेऽर्हे च कर्तरि गम्ये 'कृत्याः सप्तमी च' स्युः । भवता खलु भारो वाह्यः, उह्येत, भवान् भारं वहेत्, भवान् हि शक्तः; भवता खलु कन्या वोढव्या, उह्येत, भवान् खलु कन्यां वहेत्, भवानेतदर्हति ॥३५॥
णिन् चाऽऽवश्यकाऽऽधमये ।५।४।३६॥ अनयोर्गम्ययोः कर्तरि वाच्ये "णिन् कृत्याश्च स्युः । अवश्यंकारी, अवश्यंहारी, अवश्यं गेयो गीतस्य, शतं दायी, गेयो गाथानाम् ॥३६॥
अहे तृच् ।५।४॥३७॥ अर्हे कर्तरि वाच्ये 'तृच' स्यात् । भवान् कन्याया वोढा ॥३७॥
आशिष्याशी:- पञ्चम्यौ ।५।४३८॥ आशीविशिष्टार्थाद्-'आशीः-पञ्चम्यौ' स्याताम् । जीयात, जयतात् । आशिषीति किम् ? चिरं जीवति मैत्रः ॥३८॥
मायद्यतनी ।५।४॥३९॥ माङि उपपदे-'ऽधतनी' स्यात् । मा कार्षीत् ॥३९॥
सस्मे ह्यस्तनी च ।५।४।४०॥ स्मयुक्ते माझ्युपपदे 'यस्तन्यद्यतनी च' स्यात् । मा स्म करोत् ,मा स्म कार्षीत् ॥४०॥
धातोः सम्बन्धे प्रत्ययाः ।५।४।४१॥ धात्वर्थानां संबन्धे विशेषणविशेष्यभावे सति 'अयथाकालमपि प्रत्ययाः साधवः' स्युः । विश्वदृश्वाऽस्य पुत्रो भविता, भावि कृत्यमासीत्, गोमानासीत् ॥४१॥