________________
श्रीसिद्धहेमचन्द्रशन्दानुशासनम्
सत्कारपूर्विका अधीष्टम्, व्रतं रक्षेत्, रक्षतु । संप्रश्न: संप्रधारणा -किं नु खलु भो ! व्याकरणमधीयीय, अध्ययै, उत सिद्धान्तमधीयीय, अध्ययै ? । प्रार्थनम् याञ्चा- प्रार्थना मे तर्कमधीयीय, अध्ययै ॥२८॥
प्रैषा-ऽनुज्ञा-ऽवसरे कृत्य-पञ्चम्यौ ।५।४।२९॥ प्रैषादिविशिष्टे कळदावर्थे 'कृत्याः पञ्चमी च' स्युः । न्यत्कारपूर्विका प्रेरणा प्रेषः भवता खलु कटः कार्यः, भवान् कटं करोतु, भवान् हि प्रेषितोऽनुज्ञातो भवतोऽवसरः कटकरणे ॥२९॥
सप्तमी चोर्ध्वमौहर्तिके ।५।४।३०॥ प्रेषादिषु गम्येषु ऊर्ध्वमौहर्तिकेऽर्थे वर्तमानात् 'सप्तमी, कृत्य-पञ्चम्यौ च' । स्युः। ऊर्ध्वं मुहूर्तात् कटं कुर्यात् भवान्, भवता कटः कार्यः, कटं करोतु भवान्, भवान् हि प्रेषितोऽनुज्ञातो भवतोऽवसरः कटकरणे ॥३०॥
स्मे पञ्चमी ।५।४॥३१॥ स्मे उपपदे प्रैषादिषु गम्येषु ऊर्ध्वमौहूर्तिकार्थाद् धातोः ‘पञ्चमी' स्यात् । ऊर्ध्व मुहूर्ताद् भवान् कटं करोतु स्म, भवान् हि प्रेषितोऽनुज्ञातो भवतोऽवसरः कटकरणे ॥३१॥
अधीष्टौ ।५।४।३२॥ स्मे उपपदेऽध्येषणायां गम्यायां 'पञ्चमी' स्यात् । अङ्ग ! स्म विद्वन् ! अणुव्रतानि रक्ष ॥३२॥
काल-वेला-समये तुम्वाऽवसरे ।५।४॥३३॥ एकूपपदेष्ववसरे गम्ये धातो -'स्तुम् वा' स्यात् । कालो भोक्तुम्, वेला मोक्तुम्, समयो भोक्तुम, पक्षे- कालो भोक्तव्यस्य । अवसर इति किम् ? काल: पचति भूतानि ॥३३॥
सप्तमी यदि ।५।४३४॥