________________
६०
श्रीसिदहेमचन्द्रशब्दानुशासनम्
संभावनाऽर्थे धातावुपपदेऽलमर्थविषये संभावने गम्ये 'सप्तमी वा' स्यात्, न तु यच्छन्दे । श्रद्दधे, संभावयामि मुजीत भवान्; पक्षे- मोक्ष्यते, अभुत, अभुक्त वा । अयदीति किम् ? सम्भावयामि यद् भुजीत भवान् । श्रद्धाधाताविति किम् ? अपि शिरसा पर्वतं भिन्द्यात् ॥२३n
सतीच्छाऽर्थात् ।५।४।२४॥ सदादिच्छार्थात् ‘सप्तमी वा' स्यात् । इच्छेत्, इच्छति ॥२४॥
वय॑ति हेतु-फले ।५।४।२५॥ हेतुभूते फलभूते च वय॑त्यर्थे वर्तमानात् 'सप्तमी वा' स्यात् । यदि । गुरूनुपासीत शास्त्रान्तं गच्छेत्, यदि गुरूनुपासिष्यते शास्त्रान्तं सङ्गमिष्यते । वय॑तीति किम् ? दक्षिणेन चेद् याति न शकटं पर्याभवति ॥२५॥
कामोक्तावकचिति ।५।४।२६॥ इच्छाप्रवेदनगम्ये 'सप्तमी' स्यात्, न तु कच्चिायोगे । कामो मे मुजीत भवान् । अकच्चितीति किम् ? कच्चित् जीवति मे माता ॥२६॥
इच्छाऽर्थे सप्तमी-पञ्चम्यौ ।५।४।२७॥ इच्छाऽर्थे धातावुपपदे कामोक्तो गम्यायां 'सप्तमी-पञ्चम्यौ' स्याताम् । इच्छामि मुजीत, मुलां वा भवान् ॥२७।। विधि-निमन्त्रणा-ऽऽमन्त्रणा-ऽधीष्ट-सम्प्रश्न-प्रार्थने
५।४।२८॥ विध्यादिविशिष्टेषु कर्तृ-कर्म-भावेषु प्रत्ययार्थेषु 'सप्तमी-पञ्चम्यो' स्याताम् । विधिः= क्रियायां प्रेरणा-कटं कुर्यात, करोतु भवान् । प्रेरणायामेव यस्यां प्रत्याख्याने प्रत्यवायस्तन्त्रिमन्त्रणम् -द्विसन्ध्यमावश्यकं कुर्यात, करोतु । यत्र प्रेरणायामेव प्रत्याख्याने कामचारस्तदामन्त्रणम्-इहासीत, आस्ताम् । प्रेरणव