________________
श्रीसिद्धहेमचन्द्रशब्दानुशासनम्
-
जातु-य-यदा-यदौ सप्तमी ।५।४।१७॥ एषूपपदेष्वश्रद्धा-ऽमर्षयोः 'सप्तमी' स्यात् । न श्रद्दधे, न क्षमे जातु तत्रभवान् सुरां पिबेत्, एवं-यत्, यदा यदि सुरां पिबेत् ॥१७॥
क्षेपे च यच यत्रे 1५।४।१८॥ यच्च-यत्रयोरुपपदयोः क्षेपेऽश्रद्धा-ऽमर्षयोश्च गम्ययोः 'सप्तमी' स्यात् । घिग। गमिहे यच्च यत्र वा तत्र भवानस्मान् आक्रोशेत, न श्रद्दधे, न समे यच यत्र वा तत्रभवान् परिवादं कययेत् ॥१८॥
चित्रे ।५।४।१९॥ आश्चर्ये गम्ये यच-यत्रयोरुपपदयोः 'सप्तमी' स्यात् । चित्रमाश्चर्य यच यत्र वा तत्रभवान् अकल्प्यं सेवेत ॥१९॥
शेषे भविष्यन्त्ययदौ ५॥४॥२०॥ यच्च-यत्राभ्यामन्यस्मिन्नुपपदे चित्रे गम्ये 'भविष्यन्ती' स्यात्, न तु यदिशब्दे । चित्रमाश्चर्यमन्धो नाम गिरिमारोक्ष्यति । शेष इति किम् ? यच्च-यत्रयोः पूर्वेण । सप्तम्येव । अयदाविति किम् ? चित्रं यदि स भुजीत ॥२०॥
सप्तम्यता-ऽप्योबढि ।५।४।२१॥ बाढार्थयोरुता-ऽप्योरुपपदयोः 'सप्तमी' स्यात् । उत अपि वा कुर्यात् । बाढे इति किम् ? उत दण्डः पतिष्यति, अपि धास्यति द्वारम् ॥२१॥
सम्भावनेऽलमर्थे तदर्थानुक्तौ ।५।४।२२॥ अलमोऽर्थे शक्तौ यत् सम्भावनं, तस्मिन् गम्येऽलमर्यार्थस्याऽप्रयोगे 'सप्तमी' स्यात् । अपि मासमुपवसेत् । अलमर्थ इति किम् ? निर्देशस्थायी मे चैत्रः प्रायेण यास्यति । तदानुक्ताविति किम् ? शक्तश्चैत्रो धर्म करिष्यति ॥२२॥
अयदि श्रद्धाधातौ नवा 1५।४।२३॥