________________
श्रीसिद्धहेमचन्द्रशब्दानुशासनम्
-
क्षेपेऽपि-जात्वोर्वर्तमाना ।५।४।१२॥ क्षेपे गम्येऽपि-जात्वोरुपपदयोर्धातो-'वर्तमाना' स्यात् । अपि तत्रभवान् जन्तन हिनस्ति ?, जातु तत्रभवान् भूतानि हिनस्ति ?, धिग् गर्हामहे ॥१२॥
कथमि सप्तमी च वा ५४१३॥ कथं शब्दे उपपदे क्षेपे गम्ये धातोः 'सप्तमी वर्तमाना च वा' स्यात् । कयं नाम तत्रभवान् मांसं भक्षयेत् ?, भक्षयति वा?, गर्हामहे अन्याय्यमेतत्; पक्षे- अबभक्षत्, अभक्षयत्, भक्षयाञ्चकार, भक्षयिता, भक्षयिष्यति । अत्र सप्तमीनिमित्तमस्तीति भूते क्रियाऽतिपतने वा क्रियाऽतिपत्तिः- कयं नाम तत्रभवान् मांसममक्षयिष्यत् ?, पले- ययाप्राप्तमः भविष्यति तु क्रियातिपतने नित्यमेव सा- कयं नाम तत्रभवान् मांसमभक्षयिष्यत् ॥१३॥
किंवृत्ते सप्तमी-भविष्यन्त्यौ ।५।४।१४॥ किंवृत्ते उपपदे क्षेपे गम्ये धातोः 'सप्तमी-भविष्यन्त्यो' स्याताम् । किं तत्रभवाननृतं ब्रूयाद्, वक्ष्यति वा ?, को नाम, कतरो नाम, कतमो नाम यस्मै तत्रभवान् अनृतं ब्रूयाद्, वक्ष्यति वा ? ॥१४॥
अश्रद्धा-ऽमर्षेऽन्यत्रापि ।५।४।१५॥ अकिंवृत्ते किंवृत्ते चोपपदेऽश्रद्धा-ऽमर्षयोर्गम्ययोः 'सप्तमी-भविष्यन्त्यौ' स्याताम् । न श्रद्दधे, न सम्भावयामि तत्रभवान् नामाऽदत्तं गृहीयात, ग्रहीष्यति वा, न श्रद्दधे किं तत्रभवान् अदत्तमाददीत, आदास्यते वा ?; न मर्षयामि, न क्षमे तत्रभवान् नामादत्तं गृहीयात्, ग्रहीष्यति वा ॥१५॥
किकिलाऽस्त्यर्थयोभविष्यन्ती ।५।४।१६॥ किहिलेऽस्त्यर्थे चोपपदेऽश्रद्धा-ऽमर्षयोर्गम्ययो-'भविष्यन्ती' स्यात् । न श्रद्दधे, न मर्षयामि किदिल नाम तत्रभवान् परदारानुपकरिष्यते, न श्रद्दधे, न मर्षयामि, अस्ति नाम, भवति नाम तत्रभवान् परदारानुपकरिष्यते ॥१६॥