________________
श्रीसिद्धहेमचन्द्रशब्दानुशासनम्
५७ कालस्य योऽवधिस्तद्वाचिन्युपपदे कालस्यैवार्वाग्भागे य एष्यन्नर्थस्तद्वत्ते- र्धातो'रनद्यतनविहितः प्रत्ययो न स्यात्, न चेत् सोऽर्वाग्भागोऽहोरात्राणाम् । योऽयमागामी संवत्सरस्तस्य यदवरमाग्रहायण्यास्तत्र जिनपूजां करिष्यामः । अनहोरात्राणामिति किम् ? योऽयं मास आगामी, तस्य योऽवरः पञ्चदशरात्रस्तत्र युक्ताद् द्विरध्येतास्महे ॥७॥
परे वा ५४१८॥ कालस्य योऽवधिस्तद्वाचिन्युपपदे, कालस्यैव परे भागेऽनहोरात्रसम्बन्धिनि य एष्यनर्थस्तवृत्तेर्धातो-रनद्यतनविहितः 'प्रत्ययो वा न' स्यात् । आगामिनो वत्सरस्याऽऽग्रहायण्याः परस्ताद् द्विः सूत्रमध्येष्यामहे, अध्येतास्महे वा ॥८॥
सप्तम्यर्थे क्रियाऽतिपत्तौ क्रियाऽतिपत्तिः ।५।४।९॥ सप्तम्या अर्यो निमित्तं हेतुफलकयनादिसामग्री, कुतश्चिद् वैगुण्यात् क्रियाया अनभिनिवृत्तौ क्रियातिपत्तौ सत्यामेष्यदर्थाद् धातोः सप्तम्यर्थे 'क्रियाऽतिपत्तिः' स्यात् । दक्षिणेन चेद् अयास्यत् न शकटं पर्याभविष्यत् ॥९॥
भूते ।५।४।१०॥ भूतार्याद् धातोः क्रियाऽतिपत्तौ सत्यां सप्तम्यर्थे 'क्रियाऽतिपत्तिः' स्यात् । दृष्टो मया तव पुत्रोऽनार्थी चक्रम्यमाणः, अपरश्चातिथ्यर्थी, यदि स तेन दृथेऽभविष्यदुतामोक्ष्यत, अप्पभोक्ष्यत ॥१०॥
वोतात् प्राक् ।५।४।११॥ "सप्तम्युताऽप्यो ढे" (५, ४, २१) इत्यत्र यदुतशब्दसंकीर्तनं ततः प्राक् सप्तम्यर्थे क्रियातिपत्ती भूतार्थाद् धातो ' क्रियाऽतिपत्तिः' स्यात् । कयं नाम संयतः सत्रनागाढे तत्रभवान् आधायकृतमसेविष्यत, धिग् गमिहे; पक्षे–कयं सेवेत ? कयं सेवते ? धिग गर्हामहे । उतात् प्रागिति किम् ? कालो यदभोक्ष्यत भवान् ॥११॥