________________
५६
श्रीसिदहेमचन्द्रशब्दानुशासनम्
आगमिष्यति तर्कमध्येष्यते मैत्रः ॥२॥
क्षिप्रा-ऽऽशंसाऽर्थयो भविष्यन्ती-सप्तम्यौ ।५।४।३॥ क्षिप्रार्था-ऽऽशंसार्थयोरुपपदयोराशंस्यार्थाद् धातोर्यथासङ्ख्यं 'भविष्यन्ती -सप्तम्यौ स्याताम् । उपाध्यायश्चेदागच्छति, आगमत्, आगमिष्यति, आगन्ता वा, क्षिप्रमाश एते सिद्धान्तमध्येष्यामहे; उपाध्यायश्चेदागच्छति, आगमत, आगमिष्यति, आगन्ता वा, आशंसे संभावये युक्तोऽधीयीय ॥३॥
सम्भावने सिद्धवत् ।५।४।४॥ हेतोः शक्तिश्रद्धानम् सम्भावनम्, तस्मिन् विषयेऽसिद्धेऽपि वस्तुनि 'सिद्धवत् प्रत्ययाः' स्युः । समये चेत् प्रयलोऽभूद् उदभूवन् विभूतयः ॥४॥
नाऽनयतनः प्रबन्धा-ऽऽसत्त्योः ।५।४।५॥ धात्वर्थस्य प्रबन्धे आसत्तौ च गम्यायां धातो-'रनद्यतनविहितः प्रत्ययो न' स्यात् । यावज्जीवं भृशमन्नमदात्, दास्यति वा; येयं पौर्णमास्यतिक्रान्ता एतस्यां जिनमहः प्रावर्तिष्ट, येयं पौर्णमास्यागामिन्येतस्यां जिनमहः प्रवर्तिष्यते ॥५॥
एष्यत्यवधौ देशस्याऽर्वाग्भागे ।५।४।६॥ देशस्य योऽवधिस्तद्वाचिन्युपपदे देशस्यैवाग्भिागे य एष्यन्नर्थस्तद्वत्तेर्धातो-'रनद्यतनविहितः प्रत्ययो न' स्यात् । योऽयमध्वा गन्तव्य आ शत्रु यात्, तस्य यदवरं वलभ्यास्तत्र द्विरोदनं भोक्ष्यामहे । एष्यतीति किम् ? योऽयमध्या अतिक्रान्त आ शत्रुअयात्, तस्य यदवरं वलभ्यास्तत्र युक्ताद् द्विरध्यैमहि । अवधाविति किम् ? योऽयमध्या निरवधिको गन्तव्यः, तस्य यदवरं वलभ्यास्तत्र द्विरोदनं भोक्तास्महे । अर्वाग्भाग इति किम् ? योऽयमध्या गन्तव्य आ शत्रुजयात्, तस्य यत् परं वलभ्यास्तत्र द्विरोदनं भोक्तास्महे ॥६॥
कालस्याऽनहोरात्राणाम् ।५।४७॥