SearchBrowseAboutContactDonate
Page Preview
Page 60
Loading...
Download File
Download File
Page Text
________________ श्रीसिद्धहेमचन्द्रशब्दानुशासनम् ज्यर्थ इति किम् ? दुरायेन भूयते ॥१४०॥ शासू-युधि-दृशि-धृषि-मृषा-ऽऽतोऽनः ।५।३।१४१॥ कृच्छ्रा-ऽकृच्छ्रार्थदुः-स्वीषत्पूर्वेभ्य एभ्य आदन्ताच्च धातो-‘रनः' स्यात् । दुःशासनः, सुशासनः, ईषच्छासनः; एवं दुर्योधनः, सुयोधनः, ईषद्योधनः; दुर्दर्शनः, दुर्घर्षणः, दुर्मर्षणः, दुरुत्यानम् ॥१४१॥ इत्याचार्यश्रीहेमचन्द्रविरचितायां सिद्धहेमचन्द्राभिधानस्वोपनशब्दानुशासन लघुवृत्तौ पञ्चमस्याध्यायस्य तृतीयः पादः समाप्तः ॥५॥३॥ मात्रयाप्यधिक किञ्चित्र सहन्ते जिगीषवः । इतीव त्वं परानाप ! पारानाथमपाकृपाः ॥१९॥ [चतुर्थः पादः] सत्सामीप्ये सद्वद् वा ।५।४।१॥ समीपमेव सामीप्यम्, वर्तमानस्य सामीप्ये भूते भविष्यति चार्थे वर्तमानाद् धातो-र्वर्तमाना इव प्रत्यया वा' स्युः । कदा चैत्र ! आगतोऽसि ? अयमागच्छामि, आगच्छन्तमेव मां विद्धि; पक्षे- अयमागमम्, एषोऽस्यागतः; कदा चैत्र ! गमिष्यसि ? एष गच्छामि, गच्छन्तमेव मां विद्धि; पक्षे- एष गमिष्यामि, गन्ताऽस्मि, गमिष्यन्तमेव मां विद्धि ॥१॥ भूतवचाऽऽशंस्ये वा ।५।४।२॥ अनागतस्यार्थस्य प्राप्तुमिच्छा-आशंसा, तद्विषयः-आशंस्यः, तदर्थाद् धातो. 'भूतवत् सद्वन्ध प्रत्यया वा' स्युः । उपाध्यायश्चेदागमत्, एते तर्कमध्यगीष्महि, उपाध्यायश्चेदागच्छति, एते तर्कमधीमहे; पक्षे- उपाध्यायश्चेदागमिष्यति, आगन्ता वा, एते तर्कमध्येष्यामहे, अध्येतास्महे वा । आशंस्य इति किम् ? उपाध्याय
SR No.009646
Book TitleSiddha Hemchandrashabdanu Shasanam Part 2
Original Sutra AuthorHemchandracharya
AuthorChandraguptasuri
PublisherAnekant Prakashan Jain Religious
Publication Year2000
Total Pages375
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Grammar
File Size49 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy