SearchBrowseAboutContactDonate
Page Preview
Page 59
Loading...
Download File
Download File
Page Text
________________ श्रीसिद्धहेमचन्द्रशब्दानुशासनम् एते पुनाम्नि करणा-ऽऽधारयो-'र्घजन्ता' निपात्यन्ते । न्यायः, अवायः, अध्यायः, उद्यावः, संहारः, अवहारः, आधारः, दाराः, जारः ॥१३४॥ उदकोऽतोये ।५।३।१३५॥ उत्पूर्वादधेः पुत्राम्नि करणा-ऽऽधारयो-'पञ्' स्यात्, न चेत् तोयविषयो धात्वर्थः । तैलोदङ्कः । अतोय इति किम् ? उदकोदधनः ॥१३५॥ आनायो जालम् ।५।३।१३६॥ आपूर्वात् नियः करणा-ऽऽधारे पुन्नाम्नि जालेऽर्थे-'घञ्' स्यात् । आनायो मत्स्यानाम् ॥१३६॥ खनो उ-डरेके-कवक-धं च ।५।३।१३७॥ खनेः पुनाम्नि करणा-ऽऽधारयो-'रेते, घञ् च' स्युः । आखः, आखरः, आखनिकः, आखनिकवकः, आखनः, आखानः ॥१३७।। इ-कि-श्तिव स्वरूपाऽर्थे ।५।३।१३८॥ धातोः स्वरूपेऽर्थे च वाच्ये “एते' स्युः । भञिः, क्रुधिः, वेत्तिः; अर्थेयजेरङ्गानि, भुजिः क्रियते, पचतिः परिवर्तते ॥१३८॥ दुः-स्वीषतः कृच्छा-ऽकृच्छ्रार्थात् खल् ।५।३।१३९॥ कृच्छ्रवृत्तेर्दुरोऽर्थादकृच्छ्रवृत्तिभ्यां च स्वीषद्भ्यां पराद् धातोः 'खल्' स्यात् ।। दुःशयम्, दुष्करः, सुशयम, सुकरः; ईषच्छयम्, ईषत्करः । कृच्छ्रार्थ इति किम् ? ईषल्लम्यं धनम् ।।१३९॥ च्यर्ये काप्याद् भू-कृगः ।५।३।१४०॥ कृच्छा-ऽकृच्छार्येभ्यो दुः-स्वीषद्भ्यः पराभ्यां व्यर्थवृत्तिकर्तृ-कर्मवाचिभ्यां यथासङ्ख्यं भू-कृग्भ्यां परः 'खर् स्यात् । दुरायंभवम्, स्वायंभवम्, ईषदायंभवं भवता; दुरायंकरः, स्वायंकरः, ईषदायंकरश्चैत्रस्त्वया ।
SR No.009646
Book TitleSiddha Hemchandrashabdanu Shasanam Part 2
Original Sutra AuthorHemchandracharya
AuthorChandraguptasuri
PublisherAnekant Prakashan Jain Religious
Publication Year2000
Total Pages375
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Grammar
File Size49 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy