________________
श्रीसिदहेमचन्द्रशब्दानुशासनम्
कारणम् ।५।३।१२७॥ कृगः कर्त-र्यनट, वृद्धिश्च' स्यात् । कारणम् ॥१२७।।
भुजि-पत्यादिभ्यः कर्मा-ऽपादाने ।५।३।१२८॥ भुज्यादेः कर्मणि, पत्यादेश्चाऽपादाने-'ऽनट्' स्यात् । भोजनम्, निरदनम्। प्रपतनः, अपादानम् ॥१२८।।
करणा-ऽऽधारे ।५।३।१२९॥ अनयोरर्थयोर्धातो-रनट् स्याद् । एषणी, सक्तुधानी ॥१२९॥
पुत्राम्नि घः ।५।३।१३०॥ पुंसः संज्ञायां गम्यायां धातोः करणा-ऽऽधारयो-':' स्यात् । प्रच्छदः, दन्तच्छदः, आकरः । पुमिति किम् ? विचयनी । नाम्नीति किम् ? प्रहरणो दण्डः ॥ गोचर-संचर-वह-व्रज-व्यज-खला-ऽऽपण-निगम-बक-भग
कषा-ऽऽकष-निकषम् ।५।३।१३१॥ एते करणा-ऽऽधारयोः पुन्नाम्नि 'घान्ता' निपात्यन्ते । गोचरः, संचरः, वहः, व्रजः, व्यजः, खलः, आपणः, निगमः, बकः, बाहुलकात् कर्तरि- भगः, बाहुलकाद्-भगम, कषः, आकषः, निकषः ॥१३१॥
व्यानाद् घञ् ।५।३।१३२॥ व्यञ्जनान्ताद् धातोः पुन्नाम्नि करणा-ऽऽधारयो-'पञ्' स्यात् । वेदः ॥
___ अवात् त-स्तृभ्याम् ।५।३।१३३॥ आभ्यामवपूर्वाभ्यां करणा-ऽऽधारयोः पुत्राम्नि'घञ्' स्यात् । अवतारः, अवस्तारः ॥१३३॥ न्याया-ऽवाया-ऽध्यायोयाव-संहारा-ऽवहारा-ऽऽधार-दार
जारम् ।५।३।१३४॥