________________
श्रीसिद्धहेमचन्द्रशब्दानुशासनम्
पर्यायाऽर्हर्णोत्पत्तौ च णकः |५|३|१२०॥
एष्वर्थेषु प्रश्ना- Sऽख्यानयोश्च गम्ययोः स्त्रियां भावाकर्घातो - 'र्णकः' स्यात् । भवत आसिका, भवतः शायिका, अर्हसि त्वमिक्षुभक्षिकाम्, ऋणे इक्षुभक्षिकां मे धारयसि, इक्षुभक्षिका उदपादि, कां कारिकामकार्षीः ? सर्वां कारिकामकार्षम् ॥१२०॥ नाम्नि पुंसि च । ५।३।१२१॥
धातोः परो भावाकर्त्रीः स्त्रियां संज्ञायां 'णकः' स्यात्, यथालक्ष्यं पुंसि च । प्रच्छर्दिका, शालभञ्जिका, अरोचकः ॥१२१॥
भावे |५|३|१२२॥
५२
धात्वर्थनिर्देशे स्त्रियां धातो- 'र्णकः' स्यात् । शायिका ॥ १२२ ॥ कुबे क्तः |५|३|१२३॥
नपुंसके भावे धातोः 'क्तः ' स्यात् । हसितं तव । क्लीबे इति किम् ? हासः ।।१२३॥
अनट् |५|३|१२४ ॥ क्कीबे भावेऽर्ये धातो- 'रनट्' स्यात् । गमनम् ॥ १२४|| यत्कर्मस्पर्शात् कर्त्रद्गसुखं ततः | ५|३|१२५ ॥
1
येन कर्मणा संस्पृष्टस्य कर्तुरङ्गस्य सुखं स्यात्, ततः पराद् धातोः कीबे भावे - 'ऽनट्' स्यात् । पयःपानं सुखम् । कर्मेति किम् ? तूलिकाया उत्थानं सुखम् । स्पर्शादिति किम् ? अग्निकुण्डस्योपासनं सुखम् । कर्त्रिति किम् ? शिष्येण गुरोः स्नापनं सुखम् । अङ्गेति किम् ? पुत्रस्य परिष्वञ्जनं सुखम् । सुखमिति किम् ? कण्टकानां मर्दनम् । नित्यसमासार्थमिदम् ॥ १२५ ॥ रम्यादिभ्यः कर्त्तरि |५|३|१२६॥
एभ्यः कर्तरि 'अनट्' स्यात् । रमणी, कमनी ॥ १२६ ॥