________________
श्रीसिद्धहेमचन्द्रशब्दानुशासनम् अनिच्छार्थाद् इषेः स्त्रियां भावाकों-'रनः' स्यात् । अन्वेषणा । अनिच्छायामिति किम् ? इष्टिः ॥११२॥
पर्यधेर्वा ।५।३।११३॥ आभ्यां परादनिछार्थाद् इषे वाकोंः स्त्रिया-'मनो वा' स्यात् । पर्येषणा, परीष्टिः; अध्येषणा, अधीटिः ॥११३॥
क्रुघ-संपदादिभ्यः क्विप् ।५।३।११४॥ क्रुधादिभ्योऽनुपसर्गेभ्यः, पदादिभ्यश्च समादिपूर्वेभ्यः स्त्रियां भावाकोंः 'क्विप्' स्यात् । क्रुत्, युतः संपत्, विपत् ॥११४॥
भ्यादिभ्यो वा ।५।३।११५॥ एभ्यः स्त्रियां भावाकोंः 'विप् वा' स्यात् । भीः, भीतिः; हीः, हीतिः ॥
व्यतिहारेऽनीहादिभ्यो नः ।५।३।११६॥ व्यतीहारविषयेभ्य ईहादिवर्जेभ्यो धातुभ्यः स्त्रियां 'नः' स्यात्, बाहुलकाद् भावे । व्यावक्रोशी । अनीहादिभ्य इति किम् ? व्यतीहा, व्यतीक्षा ॥११६॥
नञोऽनिः शापे ।५।३।११७॥ नमः पराद्धातोः शापे गम्ये भावाकोंः स्त्रियाम्-'अनिः' स्यात् । अजननिस्ते भूयात् । शाप इति किम् ? अकृतिः पटस्य ॥११७॥
ग्ला-हा-ज्यः ।५।३।११८॥ एभ्यः स्त्रियां भावाकों-'रनिः' स्यात् । ग्लानिः, हानिः, ज्यानिः ॥११८॥
प्रश्ना-ऽऽख्याने वेज ।५।३।११९॥ प्रश्ने आख्याने च गम्ये स्त्रियां भावाकोंर्धातो-'रिञ् वा स्यात् । कां कारिं, कारिका, क्रियां, कृत्यां, कृति वा अकार्षीः ? सा कारिं, कारिकां, क्रियां, कृत्यां, कृर्ति वा अकार्षम् ॥११९॥