________________
श्रीसिदहेमचन्द्रशब्दानुशासनम्
जागुः स्त्रियां भावाकोंः 'अः, यश्च' स्यात् । जागरा, जागर्या ॥१०४॥
शसि-प्रत्ययात 1५/३१०५॥ शंसेः प्रत्ययान्ताच्च भावाकोंः स्त्रिया-'मः' स्यात् । प्रशंसा, गोपाया ॥
तेटो गुरोर्व्यञ्जनात् ।५।३।१०६॥ क्तस्येट् यस्मात् ततो गुरुमतो व्यजनान्ताद् धातोर्भावाकोंः स्त्रिया-'मः स्यात् । ईहा । क्तेट इति किम् ? मस्तिः । गुरोरिति किम् ? स्फूर्तिः व्यञ्जनादिति किम् ? संशीतिः ।।१०६॥
षितोऽङ् ।५।३।१०७॥ षितो धातोर्भावाकोंः स्त्रियाम् 'अ' स्यात् । पचा, जरा ॥१०७॥
भिदादयः ।५।३।१०८॥ एते भावाकोंः स्त्रिया-'मङन्ता' यथालक्ष्यं निपात्यन्ते । भिदा, छिदा ॥ भीषि-भूषि-चिन्ति-पूजि-कथि-कुम्बि-चर्चि-स्सृहि
तोलि-दोलिभ्यः ।५।३।१०९॥ - एभ्यो ण्यन्तेभ्यः स्त्रियां भावाकों-'रङ्' स्यात् । भीषा, भूषा, चिन्ता, पूजा कया, कुम्बा, चर्चा, स्पृहा, तोला, दोला ||१०९॥
उपसर्गादातः 1५।३।११०॥ उपसर्गपूर्वाद् आदन्तात् स्त्रियां भावाकों-'र' स्यात् । उपदा । उपसर्गादिति किम् ? दत्तिः ॥११०॥
णि-वेत्त्यास-श्रन्थ-घट्ट-वन्देश्नः ।५।३।१११॥ ण्यन्ताद् वेत्यादिभ्यश्च त्रियां भावाकों -'रनः' स्यात् । कारणा, वेदना आसना, श्रन्यना, घटना, वन्दना ॥१११॥
इषोऽनिच्छायाम् ।५।३।११२॥