________________
श्रीसिद्धहेमचन्द्रशब्दानुशासनम्
४१
-
इति किम् ? संमादः, प्रमादः ॥३३॥
हनोऽन्तर्घनाऽन्तर्पणौ देशे ।५।३॥३४॥ अन्तः पूर्वाद् हन्ते-'रल्-घन्, घणादेशी च' निपात्येते, देशेऽर्थे भावा-ऽकोंः । अन्तर्घनः, अन्तर्घणो वा देशः । अन्तर्घातोऽन्यः ॥३४॥
प्रघण-प्रघाणौ ग्रहांशे ।५।३॥३५॥ प्रपूर्वाद् हन्तेर्गृहांशेऽर्य-'ऽल् घण-घाणादेशौ च' निपात्येते । प्रघणः, प्रघाणो वा द्वारालिन्दकः । प्रघातोऽन्यः ॥३५॥ निघोद्घ-सयोधना-ऽपघनोपघ्नं निमित-प्रशस्त-गणा-ऽत्या
धाना-ऽङ्गा -ऽऽसत्रम् ।५।३॥३६॥ हन्तेर्निधादयो यथासंख्यं निमिताधर्येषु 'कृतघत्वादयोऽलन्ता' निपात्यन्ते । समन्ततो मितम् निमितम्, - निघा वृक्षाः; उद्घः प्रशस्तः, सङ्कः प्राणिसमूहः, अत्याधीयन्ते छेदनार्थ कुट्टनार्थ वा काठादीनि यत्र तदत्याधानम्, उद्घनः, अपघनः शरीरावयवः, उपप्न आसनः ॥३६।।
मूर्ति-निचिताऽभ्रे घनः ॥५॥३॥३७॥ हन्तेर्मूादावर्थ-'ऽल् घनादेशश्च' निपात्यते । मूर्तिः काठिन्यम्- अभ्रस्य घनः, निचितम् निरन्तरम्,- घनाः केशाः; अभ्रम् मेघः घनः ॥३७॥
व्ययो-द्रोः करणे ५।३।३८॥ एभ्यः पराद् हन्तेः करणे 'इल, घनादेशश्च' निपात्यते । विघनः, अयोधनः, द्रुधनः ॥३८॥
स्तम्बाद् नश्च ।५।३॥३९॥ स्तम्बात् पराद् हन्ते-रद, न-घनादेशौ च' निपात्येते, करणे । स्तम्बघ्नो दण्डः, स्तम्बधनो यष्टिः ॥३९॥