________________
४०
श्रीसिद्धहेमचन्द्रशब्दानुशासनम् निगदः, निगादः; निपठः, निपाठः; निस्वनः, निस्वानः; निक्वणः, निक्वाणः ॥२६॥
वैणे क्वणः 1५।३।२७॥ वीणायां भवो वैणः, तदर्थादुपसर्गपूर्वात् क्व र्भावा-ऽकों-'रल् वा' स्यात् । प्रक्वणः, प्रक्वाणो वीणायाः । वैण इति किम् ? प्रक्वाणः शृङ्खलस्य ॥२७॥
युवर्ण-वृ-दृ-वश-रण-गमृद्-ग्रहः ॥५॥३॥२८॥ इवर्णोवर्णान्तेभ्यो वादेरृदन्तेभ्यो ग्रहेश्च भावा-ऽकों-'रल्' स्यात् । चयः, क्रयः, रवः, लवः, वरः, आदरः, वशः, रणः, गमः, करः, ग्रहः ॥२८॥
वर्षादयः कीबे ५॥३॥२९॥ एतेऽलन्ताः कीबे यथादर्शनं भावा-ऽकोर्निपात्यन्ते । वर्षम्, भयम् ॥२९॥
समुदोऽजः पशौ ।५।३।३०॥ आभ्यां परादजः पशुविषयार्थवृत्तेर्भावा-ऽकों-रत्' स्यात् । समजः पशूनाम्, उदजः पशूनाम् । पशाविति किम् ? समाजो नृणाम् ॥३०॥
सू-ग्लहः प्रजना-ऽक्षे ।५।३॥३१॥ आभ्यां यथासंख्यं प्रजना-ऽक्षविषयार्थवृत्तिभ्यां भावाकों-'रल्' स्यात् । गवामुपसरः, अक्षाणां ग्लहः । प्रजनाक्ष इति किम् ? उपसारो भृत्यै राज्ञाम् ॥३१॥
पणेमाने ।५।३३२॥ पणेर्मानार्थाद् भावाकों-'रल्' स्यात् । मूलकपणः । मान इति किम् ? पाणः ॥३२॥
संमद-प्रमदौ हर्षे ।५३।३३॥ एतौ भावाकोहर्षेऽर्थेऽलन्तौ स्याताम् । संमदः, प्रमदो वा स्त्रीणाम् । हर्ष