________________
श्रीसिद्धहेमचन्द्रशब्दानुशासनम्
सप्तमी चोर्ध्वमौहूत्तिक ।५।३॥१२॥ ऊर्ध्वमुहूर्ताद् भव ऊर्ध्वमौहूर्तिकः, तस्मिन् पञ्चम्यर्थहती वय॑त्यर्थे वर्तमानाद् धातोः 'सप्तमी वर्तमाना च'वा' स्यात् । ऊर्ध्व मुहूर्तादुपाध्यायश्चेदागच्छेत, आगच्छति, आगमिष्यति, आगन्ता वा, अथ त्वं तर्कमधीष्व ॥१२॥
क्रियायां क्रियार्थायां तुम् णकच भविष्यन्ती ।५।३।१३॥ यस्माद् धातोस्तुमादिविधिस्तद्वाच्या क्रियाऽर्थः- प्रयोजनं यस्यास्तस्यां क्रियायामुपपदे वर्त्यदर्याद् धातो- 'स्तुमादयः' स्युः । कर्तुम, कारकः, करिष्यामीति वा याति । क्रियायामिति किम् ? मिक्षिष्ये इत्यस्य जटाः । क्रियायामिति किम् ? धावतस्ते पतिष्यति वासः ॥१३॥
कर्मणोऽण् ।५।३॥१४॥ क्रियायां क्रियार्थायामुपपदे कर्मणः पराद् वय॑दाद् धातो -'रण' स्यात् । कुम्भकारो याति ॥१४॥
भाववचनाः ।५।३.१५॥ भाववचना- घञ्-त्यादयः, ते क्रियायां क्रियार्थायामुपपदे वय॑दर्याद् धातोः स्युः । पाकाय, पक्तये, पचनाय वा याति ॥१५॥
पद-रुज-विश-पृशो पञ् ।५।३।१६॥ एभ्यो कतरि 'पञ्' स्यात् । पादः, रोगः, वेशः, स्पर्शः ॥१६॥
सर्तेः स्थिर-व्याधि-बल-मत्स्ये ।५।३।१७॥ सत्तरेषु कर्तृषु 'घञ्' स्यात् । सारः स्थिरः, अतीसारो व्याधिः, सारो बलम् विसारो मत्स्यः ॥१७॥
भावा-ऽकोंः ।५।३१८॥ भावे कर्तृवर्जे च कारके धातो-'पञ् स्यात् । पाकः, प्राकारः, दायो