________________
श्रीसिद्धहेमचन्द्रशब्दानुशासनम्
३७
परिदेवने ।५।३।६॥ अनुशोचने गम्ये वय॑दाद् धातोः 'श्वस्तनी' स्यात् । इयं तु कदा गन्ता, यैवं पादौ निधत्ते ? ॥६॥
पुरा-यावतोर्वर्तमाना ।५।३७॥ अनयोरुपपदयोर्वर्ण्यदर्थाद् धातो- 'वर्तमाना' स्यात् । पुरा भुले, यावद् मुझे ॥७॥
कदा-कोर्नवा ।५।३८॥ अनयोरुपपदयोर्वर्ण्यदाद् धातो - 'वर्तमाना वा' स्यात् । कदा मुझे, कदा मोक्ष्यते, कदा भोक्ता; कर्हि मुझे, कर्हि भोक्ष्यते, कर्हि भोक्ता ||८||
किंवृत्ते लिप्सायाम् ।५।३।९॥ विभक्ति-डतर-डतमान्तस्य किमो वृत्तं किंवृत्तम्, तस्मिन्नुपपदे प्रष्टुर्लिप्सायां गम्यमानायां वर्त्यदर्थाद् धातो-'वर्तमाना वा' स्यात् । को भवतां भिक्षा ददाति, दास्यति, दाता वा ? एवं- कतरः कतमः । किंवृत्त इति किम् ? भिक्षां दास्यति । लिप्सायामिति किम् ? कः पुरं यास्यति ? ॥९॥
लिप्स्यसिद्धौ ।५।३।१०॥ लब्धुमिष्यमाणाद् भक्तादेः सिद्धौ- फलावाप्ती गम्यायां वर्त्यदर्थाद्धातो'वर्तमाना वा' स्यात् । यो भिक्षां ददाति, दास्यति, दाता वा, स स्वर्गलोकं याति, यास्यति, याता वा ॥१०॥
पञ्चम्यर्थहतौ ।५।३।११॥ पञ्चम्यर्थः प्रैषादिः, तस्य हेतुरुपाध्यायाऽऽगमनादिः, तस्मित्रर्थे वय॑ति वर्तमानाद् धातो-'वर्तमाना वा' स्यात् । उपाध्यायश्चेद् आगच्छति, आगमिष्यति, आगन्ता वा, अय त्वं सूत्रमधीष्व ।।११॥