SearchBrowseAboutContactDonate
Page Preview
Page 38
Loading...
Download File
Download File
Page Text
________________ श्रीसिद्धहेमचन्द्रशदानुशासनम् 33 स्वरात् ।५।२।६८॥ एभ्यः शीलादिसदर्थेभ्यो ‘णकः' स्यात् । निन्दकः, हिंसकः, केशकः, खादकः, विनाशकः, व्याभाषकः, असूयकः, चकासकः ॥६८॥ उपसर्गाद् देव-देवि-क्रुशः ।५।२।६९॥ उपसर्गात् परेभ्यः शीलादिसदर्थेभ्य एभ्यो ‘णकः' स्यात् । आदेवकः, परिदेवकः, आक्रोशकः ॥६९।। वृङ्-भिक्षि-लुण्टि-जल्पि-कुट्टाहाकः ।५।२१७०॥ एभ्यः शीलादिसदर्थेभ्य- 'टाकः' स्यात् । वराकी, भिक्षाकः, लुण्टाकः, जल्पाकः, कुट्टाकः ॥७॥ प्रात् सू-जोरिन् ।५।२७१॥ आभ्यां प्रात् पराभ्यां शीलादिसदाभ्याम्-'इन्' स्यात् । प्रसवी, प्रजवी ।। जीण-दृ-क्षि-विश्रि-परिभू-वमा-ऽभ्यमव्यथः ।५।२।७२॥ एभ्यः शीलादिसदर्थेभ्य ‘इन्' स्यात् । जयी, अत्ययी, आदरी, क्षयी, विश्रयी, परिभवी, वमी, अभ्यमी, अव्यथी ॥७२।। सृ-घस्यदो मरक् ।५।२।७३॥ एभ्यः शीलादिसदर्थेभ्यो ‘मरक्' स्यात् । सृमरः, घस्मरः, अमरः ॥७३॥ भजि-भासि-मिदो घुरः ।५।२।७४॥ एभ्यः शीलादिसदर्थेभ्यो 'धुरः' स्यात् । भगुरम्, भासुरम्, मेदुरम् ।।७४|| वेत्ति-च्छिद-भिदः कित् ।५।२७५॥ एभ्यः शीलादिसदर्थेभ्यः 'किद् घुरः' स्यात् । विदुरः, छिदुरः, भिदुरः ।। भियो रु-रुक-लुकम् ।५।२७६॥ एभ्यः शीलादिसदर्थाद् भियः "कित एते' स्युः । भीरुः, भीरुकः, भीलुकः ॥७६॥
SR No.009646
Book TitleSiddha Hemchandrashabdanu Shasanam Part 2
Original Sutra AuthorHemchandracharya
AuthorChandraguptasuri
PublisherAnekant Prakashan Jain Religious
Publication Year2000
Total Pages375
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Grammar
File Size49 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy