________________
३४
श्रीसिद्धहेमचन्द्रशदानुशासनम्
सू-जीण-नशष्ट्वरप् ।५।२७७॥ एभ्यः शीलादिसदर्थेभ्यः "कित् ट्वरप्' स्यात् । सृत्वरी, जित्वरी, इत्वरः, नश्वरः ॥७७॥
गत्वरः ।५।२।७८॥ __ गमे- 'ष्ट्वरप, मश्च त्' निपात्यते । गत्वरी ॥७८||
स्म्यजस-हिंस-दीप-कम्प-कम-नमो रः ।५।२७९॥ एभ्यः शीलादिसदर्थेभ्यो 'रः' स्यात् । स्मेरम्, अजस्रम्, हिंस्रः, दीप्रः, कम्प्रः, कम्रः, नम्रः ॥७९॥
तृषि-घृषि-स्वपो-नजिङ् ।५।२।८०॥ एभ्यः शीलादिसदर्थेभ्यो 'नजिङ् स्यात् । तृष्णक्, धृष्णक्, स्वप्नजौ ॥८०॥
स्थेश-भास-पिस-कसो वरः ।५।२१८१॥ एभ्यः शीलादिसदर्थेभ्यो 'वरः' स्यात् । स्थावरः, ईश्वरः, भास्वरः, पेस्वरः, विकस्वरः ॥८॥
यायावरः ।५।२।८२॥ यातेर्यङन्तात् शीलादिसदाद् ‘वरः' स्यात् । यायावरः ।।८२।।
दियुद्-ददृद्-जगज्जुहू-वाक्-प्राट्-धी-श्री-दू-सू-ज्वायतस्तू
__ कटपू-परिखाट्-प्राजादयः क्वि ।५।२।८३॥ एते 'क्विबन्ताः' शीलादौ सत्यर्थे निपात्यन्ते । दिद्युत्, ददृत, जगत्, जुहूः, वाक्, तत्त्वप्राट्, धीः, श्रीः, शतद्रूः, खूः, जूः, आयतस्तूः, कटपूः, परिव्राट्, विभ्राट्, भाः ॥८॥
शं-सं-स्वयं-वि-प्राद् भुवो डुः ।५।२।८४॥ एभ्यः पराद् भुवः सदद् 'दुः' स्यात् । शम्मुः, सम्भुः, स्वयम्भुः, विभुः,