________________
३२
श्रीसिद्धहेमचन्द्रशब्दानुशासनम्
एभ्यः परात् लषेः शीलादिसदर्थाद् 'घिनण्' स्यात् । विलाषी, अपलाषी
अभिलाषी ||६०||
सम्-प्राद् वसात् |५|२|६१॥
आभ्यां पराद् वसतेः शीलादिसदर्थाद् 'घिनण्' स्यात् । संवासी प्रवासी ||६|| समत्यपाऽभि-व्यभेश्चरः | ५|२|६२ ||
एभ्यः परात् चरेः शीलादिसदर्थाद् 'घिनण्' स्यात् । सञ्चारी, अतिचारी अपचारी, अभिचारी, व्यभिचारी ॥ ६२ ॥
समनु - व्यवाद् रुधः | ५|२/६३ ॥
एभ्यः पराच्छीलादिसदर्थाद् रुधो 'घिनण्' स्यात् । संरोधी, अनुरोधी, विरोधी अवरोधी ||६३||
वेर्दहः |५|२|६४॥
विपूर्वात् शीलादिसदर्थाद् दहे ' - र्धिनण्' स्यात् । विदाही ||६४ || पर्देवि - मुहश्च |५|२|६५ ॥
परिपूर्वाभ्यां शीलादिसदर्थाभ्यामाभ्यां दहेश्च 'घिनण् स्यात् । परिदेवी, परिमोही परिदाही ||६५||
क्षिप - रटः |५|२|६६ ॥
परिपूर्वाभ्यामाभ्यां शीलादिसदर्थाभ्यां 'घिनण्' स्यात् । परिक्षेपी, परिराटी ॥ ६६ ॥
वादेश्च णकः | ५|२/६७॥
परिपूर्वात् शीलादिसदर्थाद् वादयतेः क्षिप-रटिभ्यां च 'णकः' स्यात् । परिवादक परिक्षेपकः, परिराटकः ॥६७॥
निन्द - हिंस-क्लिश-खाद- विनाशि-व्याभाषाऽसूयाऽनेक
P