________________
श्रीसिद्धहेमचन्द्रशब्दानुशासनम्
न णिङ्-य-सूद-दीप- दीक्षः | ५|२| ४५ || णिङन्ताद् यन्तात् सूदादिभ्यश्च शीलादिसदर्थेभ्यो ऽनो न' स्यात् । भावयिता क्ष्मायिता, सूदिता, दीपिता, दीक्षिता ||४५ ॥ द्रम-क्रमो यः |५|२|४६ ॥
३०
शीलादिसदर्थाभ्यां यङन्ताभ्यामाभ्याम् 'अनः' स्यात् । दन्द्रमणः चङ्क्रमणः ॥ यजि-जपि दंशि-वदादूकः | ५|२|४७ ॥
एभ्यो यङन्तेभ्यः शीलादिसदर्थेभ्य 'ऊकः' स्यात् । यायजूकः, जअपूकः, दन्दशूकः, वावदूकः ॥४७॥
"
जागुः | ५|२|४८ ॥
शीलादिसदर्थाद् जागुरूकः स्यात् । जागरूकः ॥४८॥ शमष्टकाद् घिन |५|२|४९ ॥
शीलादिसदर्थेभ्यः शमादिभ्योऽष्टभ्यो 'घिनण्' स्यात् । शमी, दमी, तमी, श्रमी, भ्रमी, क्षमी, प्रमादी, कुमी ॥४९॥
युज - भुज-भज-त्यज-रज-द्विष-दुष- द्रुह दुहाऽभ्याहनः |५|२|५०||
शीलादिसदर्थेभ्य एभ्यो 'घिनण्' स्यात् । योगी, भोगी, भागी, त्यागी, रागी, द्वेषी, दोषी, द्रोही, दोही, अभ्याघाती । अकर्मकादित्येव - गां दोग्धा । आङः क्रीड - मुषः | ५/२/५१ ॥
शीलादिसदर्थाभ्यामाभ्यां आपूर्वाभ्यां 'घिनण् स्यात् । आक्रीडी, आमोषी ॥५१॥
प्राच्च यम-यसः | ५|२|५२॥
शीलादिसदर्थाभ्यामाङः प्राच्च पराभ्यामाभ्यां 'घिनण् स्यात् । प्रयामी, आयामी,