SearchBrowseAboutContactDonate
Page Preview
Page 34
Loading...
Download File
Download File
Page Text
________________ श्रीसिद्धहेमचन्द्रशन्दानुशासनम् २९ शीलादिसदर्थानां सहि-वहि-चलि-पतां यङन्तानां डी सति यथासङ्ख्यमेते निपात्यन्ते । सासहिः, वावहिः, चाचलिः, पापतिः ॥३८॥ समि-चक्रि-दधि-जज्ञि-नेमिः ।५।२।३९॥ एते शीलादौ सदर्थाद् द्वयुक्तमन्तो ड्यन्ता निपात्यन्ते । सम्रिः, चक्रिः, दधिः, जज्ञिः, नेमिः ॥३९॥ श-कम-गम-हन-वृष-भू-स्थ उकण् ।५।२।४०॥ शीलादिसदर्थेभ्य एभ्य 'उकण्' स्यात् । शारुकः, कामुकः, आगामुकः, धातुकः, वय्कः, भावुकः, स्थायुकः ॥४०॥ लष-पत-पदः ।५।२।४१॥ शीलादिसदर्येभ्य एभ्य 'उकण्' स्यात् । अभिलाषुकः, प्रपातुकः, उपपादुकः ॥४१॥ भूषा-क्रोधार्थ-जु-स-गृधि-ज्वल-शुचचाऽनः ।५।२।४२॥ भूषार्थेभ्यः क्रोधार्येभ्यो ज्वादेर्लषादेश्च शीलादिसदर्येभ्यो-'ऽनः' स्यात् । भूषणः, क्रोधनः, कोपनः, जवनः, सरणः, गर्द्धनः, ज्वलनः, शोचनः, अभिलषणः, पतनः, अर्थस्य पदनः ॥४२॥ चल-शब्दाखंदकर्मकात् ।५।२।४३॥ चलार्थात् शब्दार्थाच्च धातोः शीलादिसददिकर्मकाद्-'अनः' स्यात् । चलनः, रवणः । अकर्मकादिति किम् ? पठिता विद्याम् ॥४३॥ इ-डितो व्यञ्जनाऽऽयन्तात् ।५।२।४४॥ व्यजनमादिरन्तश्च यस्य तस्मादिदितो तिश्च धातोः शीलादिसदर्याद्- 'अनः' स्यात् । स्पर्धनः, वर्तनः । व्यअनाघन्तादिति किम् ? एधिता, शयिता। अकर्मकादित्येव- वसिता वस्त्रम् ॥४४॥
SR No.009646
Book TitleSiddha Hemchandrashabdanu Shasanam Part 2
Original Sutra AuthorHemchandracharya
AuthorChandraguptasuri
PublisherAnekant Prakashan Jain Religious
Publication Year2000
Total Pages375
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Grammar
File Size49 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy