SearchBrowseAboutContactDonate
Page Preview
Page 33
Loading...
Download File
Download File
Page Text
________________ २८ श्रीसिद्धहेमचन्द्रशन्दानुशासनम् आभ्यां शीलादिसदाभ्यां 'ष्णुक्' स्यात् । भूष्णुः, जिष्णुः ॥३०॥ स्था-ग्ला-म्ला-पचि-परिमृजि-क्षेः स्नुः ।५।२।३१॥ एभ्यः शीलादिसदर्थेभ्यः 'स्तुः' स्यात् । स्थास्नुः, ग्लास्तुः, म्लास्नुः, पक्ष्णुः, परिमाणुः, क्षेष्णुः ॥३१॥ त्रसि-गृधि-धृषि-क्षिपः क्नुः ।५।२।३२॥ एभ्यः शीलादिसदर्थेभ्यः ‘क्नुः' स्यात् । वस्तुः, गृनुः, धृष्णुः, क्षिप्नुः ॥ सन्-मिक्षा-5ऽशंसेरुः ।५।२।३३॥ शीलादिसदर्थात् सन्नन्ताद् भिक्षा-ऽऽशंसिभ्यां च 'उः' स्यात् । लिप्सुः, भिक्षुः, आशंसुः ॥३३॥ विन्दिछु ।५।२॥३४॥ शीलादिसदाभ्यां वेत्तीछतिभ्याम् - 'उ:' यथासंख्यं 'नुपान्त्य - छान्तादेशी च' निपात्येते । विन्दुः, इच्छुः ॥३४॥ श-वन्देरारुः ।५।२।३५॥ आभ्यां शीलादिसदाभ्याम् 'आरुः' स्यात् । विशरारुः, वन्दारुः ॥३५॥ दा-धे-सि-शद-सदो रुः ।५।२।३६॥ शीलादिसदर्थेभ्यो दारूप-ट्धे-सि-शद-सद्भ्यो 'रु' स्यात् । दारुः, धारुः, सेरुः, शदुः, सगुः ॥३६॥ शीट्-प्रद्धा-निद्रा-तन्द्रा-दयि-पति-गृहि-स्पृहेरालुः 1५॥२॥३७॥ एभ्यः शीलादिसतर्येभ्य 'आलुः' स्यात् । शयातुः, श्रद्धालुः, निद्रालुः, तन्द्रालुः, दयालुः, पतयालुः, गृहयालुः, स्पृहयालुः ॥३७॥ डौ सासहि-वावहि-चाचलि-पापतिः ।५।२॥३८॥
SR No.009646
Book TitleSiddha Hemchandrashabdanu Shasanam Part 2
Original Sutra AuthorHemchandracharya
AuthorChandraguptasuri
PublisherAnekant Prakashan Jain Religious
Publication Year2000
Total Pages375
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Grammar
File Size49 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy