________________
श्रीसिदहेमचन्द्रशब्दानुशासनम्
% 3D
वयः शक्ति - शीले ।५।२।२४॥ एषु गम्येषु सदर्थाद् धातोः 'शानः' स्यात् । स्त्रियं गच्छमानाः, समश्नानाः , परान् निन्दमानाः ।५।२।२४॥
धारीङोऽकृच्छ्रेतृश् ।५।२।२५॥ सुखसाध्ये सत्यर्थे वर्तमानाद् धारेरिङश्च परो-'ऽतृश्' स्यात् । धारयन् आचारानम्, अधायन् द्रुमपुष्पीयम् ॥२५॥
सुग द्विषार्हः सत्रि-शत्रु-स्तुत्ये ।५।२।२६॥ सदर्थेभ्य एम्यो यथासङ्ख्यं सत्रिणि शत्रौ स्तुत्ये च कतरि 'अतृश्' स्यात् । सर्वे सुन्वन्तः, चौरं द्विषन्, पूजामर्हन् । एष्विति किम् ? सुरां सुनोति ॥२६॥
तृन शील-धर्म-साधुषु ।५।२।२७॥ शीलादिषु सदर्याद् धातो 'स्तृन्' स्यात् । कर्ता कटम्, वधूमूढां मुण्डयितारः श्राविष्ठायनाः, गन्ता खेलः ॥२७॥ प्राज्यलग-निराकृग-भू-सहि-रुचि-वृति-वृधि-चरि-प्रजना
ऽपत्रप इष्णुः ।५।२।२८॥ एभ्यः शीलादिसदर्थेभ्य 'इष्णुः' स्यात् । प्राजिष्णुः, अलङ्करिष्णुः, निराकरिष्णुः, भविष्णुः, सहिष्णुः, रोचिष्णुः, वर्तिष्णुः, वर्द्धिष्णुः, चरिष्णुः, प्रजनिष्णुः, अपत्रपिष्णुः ॥२८॥
- उदः पचि-पति-पदि-मदेः ।५।२।२९॥ उत्पूर्वेभ्य एभ्यः शीलादिसदर्येभ्य 'इष्णुः' स्यात् । उत्पविष्णुः, उत्पतिष्णुः, उत्पदिष्णुः, उन्मदिष्णुः ॥२९॥
भू-जेः ष्णुक् ।२।३०॥