________________
२६
श्रीसिद्धहेमचन्द्रशब्दानुशासनम् भूतानद्यतनेऽर्थे वर्तमानाद् धातोः स्मे पुराऽऽदी चोपपदे 'वर्तमाना' स्यात् । पृच्छति स्म पुरोधसम्, वसन्तीह पुरा छात्राः, अथाऽऽह वर्णी ॥१६॥
ननौ पृष्टोक्तौ सद्धत् ।५।२।१७॥ ननावुपपदे पृष्टप्रतिवचने मूतेऽर्थे वर्तमानाद् धातो-'वर्तमानेव वर्तमाना' स्यात् । किमकार्षीः कटं चैत्र ! ननु करोमि भोः, ननु कुर्वन्तं मां पश्य ॥
न-चोर्वा ।५।२॥१८॥ न-न्वोरुपपदयोः पृथक्तौ भूतेऽर्थे वर्तमानाद् धातो-' वर्तमाना' स्यात्, सा च 'सद्वत्' । किमकार्षीः कटं चैत्र ? न करोमि भोः, न कुर्वन्तं मां पश्य, नाकार्षम् नु करोमि भोः ! नु कुर्वाणं मां पश्य, न्वकार्षम् ॥१८॥
सति ।५।२॥१९॥ वर्तमानार्थाद् धातो '-वर्तमाना' स्यात् । अस्ति; करं पचति, मांसं न भक्षयति, इहाधीमहे, तिष्ठन्ति पर्वताः ॥१९॥
शत्रानशावेष्यति तु सस्यौ ।५।२।२०॥ सदर्थात् धातोः 'शत्रानशौ' स्याताम्, भविष्यन्ती विषयेऽर्थे "स्ययुक्तौ । यान्, शयानः, यास्यन्, शयिष्यमाणः ॥२०॥
तौ माझ्याक्रोशेषु ।५।२॥२१॥ माझ्युपपदे आक्रोशे गम्ये 'तौ शत्रानशावेव' स्याताम् । मा पचन् वृषलो ज्ञास्यति, मा पचमानोऽसौ मर्तुकामः ॥२१॥
वा वेत्तेः क्वसुः ।५।२।२२॥ सदर्यात् वेत्तेः 'क्वसुर्वा' स्यात् । तत्त्वं विद्वान, विदन् ॥२२॥
पूट - यजः शानः ।५।२।२३॥ आभ्यां सदाभ्यां परः 'शानः' स्यात् । पवमानः यजमानः ॥२३॥