________________
श्रीसिद्धहेमचन्द्रशब्दानुशासनम्
वाऽऽकाङ्क्षायाम् ।५।२।१०॥ स्मृत्यर्थे धातावुपपदे प्रयोक्तुः क्रियान्तराकाङ्क्षायां सत्यां भूतानद्यतनाद् धातो-'भविष्यन्ती वा' स्यात् । स्मरसि मित्र ! कश्मीरेषु वत्स्यामोऽवसाम वा, तत्रौदनं भोक्ष्यामहे, अभुमहि वा ? ॥१०॥
कृताऽस्मरणा-ऽतिनिहवे परोक्षा 1५।२।११॥ कृतस्यापि चित्तविक्षेपादिनाऽस्मरणेऽत्यन्तनिहवे वा गम्ये भूतानद्यतनार्थाद् धातोः 'परोक्षा' स्यात् । सुप्तोऽहं किल विललाप, कलिङ्गेषु ब्राह्मणो हतस्त्वया, नाऽहं कलिझान् जगाम ॥११॥
परोक्षे ।५।२११२॥ भूतानघतने परोक्षार्थाद् धातोः 'परोक्षा' स्यात् । धर्म दिदेश तीर्थङ्करः ॥
ह-शश्वद्-युगान्तःप्रच्छ्ये झस्तनी वा ५।२।१३॥ हे शश्वति च प्रयुक्ते पञ्चवर्षमध्यप्रच्छ्ये च भूतानद्यतने परोक्षेऽर्थे वर्तमानाद् धातो 'स्तिनी परोसे' स्याताम् । इति हाकरोत्, इति ह चकार, शश्वदकरोत्, शश्वञ्चकार, किमगच्छस्त्वं मथुराम् ? किं जगन्य त्वं मथुराम् ? ॥१३॥
अविवक्षिते ।५।२।१४॥ भूतानद्यतने परोक्षे परोक्षत्वेनाविवक्षितेऽर्थे वर्तमानाद् धातो 'हस्तिनी' स्यात् । अहन् कंसं किल वासुदेवः ॥१४॥
वाऽयतनी पुराऽऽदौ ।५।२।१५॥ भूतानघतने परोक्षे परोसत्वेनाविवक्षितेऽर्थे वर्तमानाद् धातोः पुरादावुपपदे 'अद्यतनी वा स्यात् । अवात्सुरिह पुरा छात्राः, पले- अवसन्, ऊषुर्वा; तदाऽभाषिष्ट राघवः, प- अमाषत; वभाषे ॥१५॥
स्मे च वर्तमाना ।५।२।१६॥