SearchBrowseAboutContactDonate
Page Preview
Page 27
Loading...
Download File
Download File
Page Text
________________ २२ श्रीसिद्धहेमचन्द्रशब्दानुशासनम् सोमात सुगः 1५1१1१६३॥ सोमाद् व्याप्यात् पराद् भूतार्थात् सुगः 'विप्' स्यात् । सोमसुत् ॥१६३॥ अग्नेश्वेः ।५।१।१६४॥ अग्नेप्प्यात् पराद् भूतार्थाच्चेः 'क्विप्' स्यात् । अग्निचित् ॥१६४।। कर्मण्यग्न्यर्थे ।५।१११६५॥ कर्मणः पराद् भूतार्थाच्चेः कर्मण्यन्यर्थे 'क्विप्' स्यात् । श्येनचित् ।।१६५।। दृशः क्वनिप् ।५1१1१६६॥ व्याप्यात् पराद् भूतार्थाद् दृशेः 'क्वनिप्' स्यात् ।बहुदृश्वा ॥१६६॥ सह-राजभ्यां कृग-युधेः ।५।१।१६७॥ आभ्यां कर्मभ्यां पराद् भूतार्थात् कृगो युधेश्च 'क्वनिप्' स्यात् । सहकृत्वा, सहयुध्वा, राजकृत्वा, राजयुध्या ॥१६७॥ अनोर्जनेर्डः ।५।१।१६८॥ कर्मणः परादनुपूर्वात् भूतार्थाद् जने-'ई:' स्यात् । पुमनुजः ॥१६८॥ सप्तम्या: 1५1१1१६९॥ सप्तम्यन्ताद् भूतार्याज्जने-'ई.' स्यात् । मन्दुरजः ॥१६९॥ अजातेः पञ्चम्याः 1५1१1१७०॥ पञ्चम्यन्तादजात्याद् भूतार्थाद् जने-'ई:' स्यात् । बुद्धिजः । अजातेरिति किम् ? गजात जातः ॥१७०॥ क्वचित् ।५।१।१७१॥ उक्तादन्यत्रापि ययालक्ष्यं 'ड:' स्यात् । किञः, अनुजः, अजः, स्त्रीजः, ब्रह्मज्यः, वराहः, आखः ॥१७१॥
SR No.009646
Book TitleSiddha Hemchandrashabdanu Shasanam Part 2
Original Sutra AuthorHemchandracharya
AuthorChandraguptasuri
PublisherAnekant Prakashan Jain Religious
Publication Year2000
Total Pages375
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Grammar
File Size49 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy