________________
श्रीसिद्धहेमचन्द्रशन्दानुशासनम्
२१
प्रस्थायी । अजातेरिति किम् ? शालीन् भोक्ता । शील इति किम् ? उष्णभोजो मन्दः ॥१५४॥
साधौ ।५।११५५॥ नाम्नः परात् साध्वर्याद् धातो- 'णिन्' स्यात् । साधुकारी ॥१५५॥
ब्रह्मणो वदः ।५।१११५६॥ ब्रह्मणः पराद् वदे-'णिन्' स्यात् । ब्रह्मवादी ॥१५६॥
व्रता-5ऽभीक्ष्ण्ये 1५1१1१५७॥ अनयोर्गम्यमानयोर्नाम्नः पराद् धातो -णिन्' स्यात् । स्थण्डिलवर्ती, क्षीरपायिण उशीनराः ॥१५७||
करणाद् यजो भूते ।५।१।१५८॥ करणार्थाद् नाम्नः पराद् भूतार्थाद् यजे-'र्णिन् स्यात् । अग्निष्टोमयाजी ॥१५८॥
निन्ये व्याप्यादिन विक्रियः 1५1१1१५९॥ व्याप्याद् नाम्नः परात् भूतार्थाद् विक्रियः कुत्स्ये कर्तरि 'इन्' स्यात् ।। सोमविक्रयी । निन्ध इति किम् ? धान्यविक्रायः ॥१५९॥
हनो णिन् ।५1१1१६०॥ व्याप्यात् पराद् भूतार्याद् इन्तेर्निन्धे कर्तरि 'णिन्' स्यात् । पितृघाती ॥१६०॥
ब्रह्म-भ्रूण-वृत्रात् क्विम् ।५।१।१६१॥ एभ्यः कर्मभ्यः पराद् भूतार्थाद् हन्तेः 'क्विप्' स्यात् । ब्रह्महा, भ्रूणहा, वृत्रहा ॥१६॥
कृगः सु-पुण्य-पाप-कर्म-मन्त्र-पदात् ।५।१।१६२॥ सोः पुण्यादेश्च कर्मणः परात् भूतार्यात् कृगः 'क्विप्' स्यात् । सुकृत, पुण्यकृत, पापकृत, कर्मकृत, मन्त्रकृत, पदकृत् ॥१६२॥